SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ ४८० आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे पूर्णवदवभासते, अपरस्तु तुच्छो धन-श्रुतादिरहितोऽत एव तदविनियोजकत्वात् तुच्छावभासीति ४। _ तथा पूर्णो नीरादिना पुन: पूर्णं पुण्यं वा पवित्रं रूपं यस्य स तथेति प्रथमः, द्वितीये तुच्छं हीनं रूपम् आकारो यस्य स तुच्छरूपः, एवं शेषौ ५। पुरुषस्तु पूर्णो ज्ञानादिभि: 5 पूर्णरूप: पुण्यरूपो वा विशिष्टरजोहरणादिद्रव्यलिङ्गसद्भावात् सुसाधुरिति, द्वितीयभङ्गे तुच्छरूप: कारणात् त्यक्तलिङ्ग: सुसाधुरेवेति, तृतीये तुच्छो ज्ञानादिविहीनो निह्नवादिः, चतुर्थो ज्ञानादिद्रव्यलिङ्गहीनो गृहस्थादिरिति ६। __तथा पूर्णस्तथैव, अपिस्तुच्छापेक्षया समुच्चयार्थः, एकः कश्चित्, प्रियाय प्रीतये अयमिति प्रियार्थ: कनकादिमयत्वात् सार इत्यर्थः, तथा अपदलम् अपशदं द्रव्यं 10 कारणभूतं मृत्तिकादि यस्यासावपदल: अवदलति वा दीर्यत इत्यवदल: आमपक्वतयाऽसार इत्यर्थः, तुच्छोऽप्येवमिति ७ । पुरुषो धन-श्रुतादिभि: पूर्णः, प्रियार्थः कश्चित् प्रियवचनदानादिभि: प्रियकारी सार इति, अन्यस्तु न तथेत्यपदल: परोपकारं प्रत्ययोग्य इति, तुच्छोऽप्येवमेवेति ८ ।। पूर्णोऽपि जलादेर्विष्यन्दते श्रवति, इह तुच्छः तुच्छजलादिः स एव विष्यन्दते, 15 अपि: सर्वत्र समुच्चये प्रतियोग्यपेक्षयेति ९ । पुरुषस्तु पूर्णोऽप्येको विष्यन्दते धनं ददाति श्रुतं वा, अन्यो नेति, तुच्छोऽपि अल्पवित्तादिरपि धन-श्रुतादि विष्यन्दतेऽन्यो नैवेति तथा भिन्न: स्फुटितः, जर्जरितो राजीयुक्तः, परिश्रावी दुष्पक्वत्वात् क्षरकः, अपरिश्रावी कठिनत्वादिति ११ । चारित्रं तु भिन्नं मूलप्रायश्चित्तापत्त्या, जर्जरितं 20 छेदादिप्राप्त्या, परिश्रावि सूक्ष्मातिचारतया, अपरिश्रावि निरतिचारतयेति, इह च पुरुषाधिकारेऽपि यच्चारित्रलक्षणपुरुषधर्मभणनं तद्धर्म-धर्मिणोः कथञ्चिदभेदादनवद्यमवगन्तव्यमिति १२ । ___ तथा मधुनः क्षौद्रस्य कुम्भो मधुकुम्भः, मधुभृतं मध्वेव वा पिधानं स्थगनं यस्य ____स मधुपिधानः, एवमन्ये त्रय: १३ । 25 पुरुषसूत्रं स्वयमेव हिययमित्यादिगाथाचतुष्टयेन भावितमिति, तत्र हृदयं मन: अपापम् १. तु तुच्छ जे१ ॥ २. दीयंत जे१ ॥ ३. जलादेवि जेमू१ । जलादि वि जेसं१ ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy