________________
४७९
[सू० ३५९] चतुर्थमध्ययनं चतुःस्थानकम् । चतुर्थ उद्देशकः । हिययमपावमकलुसं जीहा वि य मधुरभासिणी निच्चं । जम्मि पुरिसम्मि विजति से मधुकुंभे मधुपिहाणे ॥२६॥ हिययमपावमकलुसं जीहा वि य कडुयभासिणी निच्चं । जम्मि पुरिसम्मि विज्जति से मधुकुंभे विसपिधाणे ॥२७॥ जं हिययं कलुसमयं जीहा वि य मधुरभासिणी निच्चं । जम्मि पुरिसम्मि विजति से विसकुंभे मधुपिधाणे ॥२८॥ जं हिययं कलुसमयं जीहा वि य कडुयभासिणी निच्चं । जम्मि पुरिसम्मि विजति से विसकुंभे विसपिधाणे ॥२९॥ [टी०] समुद्रप्रस्तावात्तत्तरकान् सूत्रद्वयेनाह- चत्तारि तरगेत्यादि व्यक्तम्, नवरं तरन्तीति तरा:, त एव तरका:, समुद्र समुद्रवद् दुस्तरं सर्वविरत्यादिकं कार्यं तरामि 10 करोमीत्येवमभ्युपगम्य तत्र समर्थत्वादेकः समुद्रं तरति तदेव समर्थयतीत्येकः, अन्यस्तु तदभ्युपगम्यासमर्थत्वात् गोष्पदं तत्कल्पं देशविरत्यादिकमल्पतमं तरति निर्वाहयतीति, अन्यस्तु गोष्पदप्रायमभ्युपगम्य वीर्यातिरेकात् समुद्रप्रायमपि साधयतीति, चतुर्थः प्रतीत: १। समुद्रप्रायं कार्यं तरीत्वा निर्वाह्य समुद्रप्राये प्रयोजनान्तरे विषीदति न तन्निर्वाहयतीति विचित्रत्वात् क्षयोपशमस्येति, एवमन्ये त्रय इति २।
15 पुरुषानेव कुम्भदृष्टान्तेन प्रतिपिपादयिषुः सूत्रप्रपञ्चमाह, सुगमश्चायम्, नवरं पूर्णः सकलावयवयुक्तः प्रमाणोपेतो वा पुन: पूर्णो मध्वादिभृतः, द्वितीये भङ्गे तुच्छो रिक्तः, तृतीये तुच्छः अपूर्णावयवो लघुर्वा, चतुर्थः सुज्ञान:, अथवा पूर्णो भृत: पूर्वं पश्चादपि पूर्ण इत्येवं चत्वारोऽपि १, पुरुषस्तु पूर्णो जात्यादिभिर्गुणैः, पुन: पूर्णो ज्ञानादिभिरिति, अथवा पूर्णो धनेन गुणैर्वा पूर्वं पश्चादपि तैः पूर्ण एवेत्येवं शेषा अपि २। 20
पूर्णोऽवयवैर्दध्यादिना वा पूर्ण एवावभासते द्रष्टणामिति पूर्णावभासीत्येकः, अन्यस्तु पूर्णोऽपि कुतश्चिद्धेतोर्विवक्षितप्रयोजनासाधकत्वादेस्तुच्छोऽवभासते, एवं शेषौ ३ । पुरुषस्तु पूर्णो धन-श्रुतादिभिस्तद्विनियोगाच्च पूर्ण एवावभासते, अन्यस्तु तदविनियोगात्तुच्छ एवावभासते, अन्यस्तु तुच्छोऽपि कथमपि प्रस्तावोचितप्रवृत्तेः
१. 'वात्तरका जेसं१ खं० ॥ २. यवैर्द्रव्यादिना जे१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org