SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ ४७१ 5 [सू० ३५४] चतुर्थमध्ययनं चतुःस्थानकम् । चतुर्थ उद्देशकः । कंदप्प २ देवकिब्बिस २ अभिओगा ३ आसुरा य ४ संमोहा ५ । एसा उ संकिलिट्ठा पंचविहा भावणा भणिया ॥ [बृहत्कल्प० १२९३] आसां च मध्ये यो यस्यां भावनायां वर्तते स तद्विधेषु देवेषु गच्छति चारित्रलेशप्रभावात्, उक्तं च जो संजओ वि एयासु अप्पसत्थासु वटइ कहिं(हं?)चि । सो तविहेसु गच्छइ सुरेसु भइओ चरणहीणो ॥ [बृहत्कल्प० १२९४] इति । __ आसुरादिरपध्वंस उक्तः, स चासुरत्वादिनिबन्धन इत्यसुरादिभावनास्वरूपभूतान्यसुरादित्वसाधनकर्मणां कारणानि सूत्रचतुष्टयेनाह- चउहिं ठाणेहीत्यादि कण्ठ्यम्, नवरम् असुरेषु भव आसुर: असुरविशेषः, तद्भाव: आसुरत्वम्, तस्मै आसुरत्वाय तदर्थमित्यर्थः, अथवा असुरतायै असुरतया वा कर्म तदायुष्कादि 10 प्रकुर्वन्ति कर्तुमारभन्ते, तद्यथा-क्रोधनशीलतया कोपस्वभावत्वेन, प्राभृतशीलतया कलहनस्वरूपतया, संसक्ततपःकर्मणा आहारोपधिशय्यादिप्रतिबद्धभावतपश्चरणेन, निमित्ताजीवनतया त्रैकालिकलाभालाभादिविषयनिमित्तोपात्ताहाराद्युपजीवनेनेति, अयमर्थोऽन्यत्रैवमुक्त:अणुबद्धविग्गहो च्चिय संसत्ततवो निमित्तमाएसी । 15 निक्किव णिराणुकंपो आसुरियं भावणं कुणइ ॥ [बृहत्कल्प० १३१५] इति । तथा अभियोगं व्यापारणमर्हन्तीत्य॑भियोग्या: किङ्करदेवविशेषाः, तद्भावस्तत्ता, तस्यै तया वेति, आत्मोत्कर्षेण आत्मगुणाभिमानेन, परपरिवादेन परदोषपरिकीर्तनेन, भूतिकर्मणा ज्वरितादीनां भूत्यादिभी रक्षादिकरणेन, कौतुककरणेन सौभाग्यादिनिमित्तं परस्नपनकादिकरणेनेति, इयमप्येवमन्यत्र कोउय भूईकम्मे पसिणा इयरे निमित्तमाजीवी । इढिरससायगुरुओ अभिओगं भावणं कुणइ ॥ [बृहत्कल्प० १३०८] इति । प्रश्नोऽङ्गुष्ठप्रश्नादिः, इतरः स्वप्नविद्यादिरिति । तथा सम्मुह्यतीति सम्मोहः मूढात्मा देवविशेष एव, तद्भावस्तत्ता, तस्यै सम्मोहतायै सम्मोहत्वाय सम्मोहतया वेति, उन्मार्गदेशनया सम्यग्दर्शनादिरूपभावमार्गातिक्रान्त- 25 १. संबंधतया पा० जे२ ॥ २. चिय पा० जे२ ॥ ३. 'त्याभि' पा० जे२ ॥ 20 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy