________________
४७०
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे सूत्रसप्तकमाह- चउव्विहे संवासेत्यादि कण्ठ्यम्, नवरं स्त्रिया सह संवसनं शयनं संवासः, द्यौः स्वर्गः, तद्वासी देवोऽप्युपचाराद् द्यौस्तत्र भवो दिव्यो वैमानिकसम्बन्धीत्यर्थः, असुरस्य भवनपतिविशेषस्यायमासुर एवमितरौ, नवरं राक्षसो
व्यन्तरविशेष: । चतुर्भङ्गिकासूत्राणि देव ३ | असुर २ | राक्षस १ | मनुष्य 5 देवासुरेत्येवमादिसंयोगत: षट् संभवन्ति ।।
वान्त । देवी | असुरी | राक्षसी | नारी
[सू० ३५४] चउव्विहे अवद्धंसे पन्नत्ते, तंजहा-आसुरे, आभिओगे, संमोहे, देवकिब्बिसे ।
चउहिं ठाणेहिं जीवा आसुरत्ताते कम्मं पगरेंति, तंजहा-कोधसीलताते, पाहुडसीलताते, संसत्ततवोकम्मेणं, निमित्ताजीवताते । । 10 चउहि ठाणेहिं जीवा आभिओग्गत्ताते कम्मं पगरेंति, तंजहा-अत्तुक्कोसेणं, परपरिवातेणं, भूतिकम्मेणं, कोउयकरणेणं ।
चउहिं ठाणेहिं जीवा सम्मोहत्ताते कम्मं पगरेंति, तंजहा-उम्मग्गदेसणाए मग्गंतराएणं, कामासंसपओगेणं, भिज्झानियाणकरणेणं ।
चउहि ठाणेहिं जीवा देवकिब्बिसियत्ताते कम्मं पगरेंति, तंजहा-अरहंताणं 15 अवन्नं वदमाणे, अरहंतपन्नत्तस्स धम्मस्स अवन्नं वदमाणे, आयरियउवज्झायाणमवन्नं वदमाणे, चाउवनस्स संघस्स अवन्नं वदमाणे ।
[टी०] पुरुषक्रियाधिकारादेवापध्वंससूत्रम्, तत्रापध्वंसनमपध्वंस: चारित्रस्य तत्फलस्य वा असुरादिभावनाजनितो विनाशः, तत्रासुरभावनाजनित आसुरः, येषु
वाऽनुष्ठानेषु वर्तमानोऽसुरत्वमर्जयति तैरात्मनो वासनमासुरभावना, एवं भावनान्तरमपि, 20 अभियोगभावनाजनित आभियोगः, सम्मोहभावनाजनितः साम्मोहः,
देवकिल्बिषभावनाजनितो दैवकिल्बिष इति, इह च कन्दर्पभावनाजनित: कान्दोऽपध्वंस: पञ्चमोऽस्ति, स च सन्नपि नोक्तः, चतुःस्थानकानुरोधात्, भावना हि पञ्चाऽऽगमेऽभिहिता:, आह च
१. षड् भवन्ति पा० जे२ ॥ २. दृश्यतां पृ० ४६४ टि० २ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org