SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ ४५७ [सू० ३४५] चतुर्थमध्ययनं चतुःस्थानकम् । चतुर्थ उद्देशकः ।। संदृशकोऽन्येन श्रेयसा मन्यते ज्ञायते जनेनेति, विभक्तिपरिणामाद्वा सदृशकमात्मानं मन्यत इति, एवं शेषाः । आघवइत्तेति आख्यायकः प्रज्ञापकः प्रवचनस्य एकः कश्चिन्न च प्रविभावयिता प्रभावकः शासनस्य उदारक्रिया-प्रतिभादिरहितत्वात्, प्रविभाजयिता वा प्रवचनार्थस्य नयोत्सर्गादिभिर्विवेचयितेति । अथवा आख्यायकः सूत्रस्य प्रविभावयिता प्रविभाजयिता 5 वाऽर्थस्येति । आख्यायक एकः सूत्रार्थस्य न चोञ्छजीविकासम्पन्नो नैषणादिनिरत इत्यर्थः, स चापद्गतः संविग्नः संविग्नपाक्षिको वा, यदाह होज्ज हु वसणं पत्तो सरीरदुब्बल्लयाए असमत्थो । चरणकरणे असुद्धे सुद्धं मग्गं परूवेज्जा ॥ तथा- ओसन्नो वि विहारे कम्मं सिढिलेइ सुलभबोही य ।। ___ 10 चरणकरणं विसुद्धं उववूहंतो परूवेंतो ॥ [निशीथ० ५४३५-३६] इत्येकः, द्वितीयो यथाच्छन्दः, तृतीयः साधुः, चतुर्थो गृहस्थादिरिति । पूर्वसूत्रे साधुलक्षणपुरुषस्याख्यायकत्वोञ्छजीविकासम्पन्नत्वलक्षणा गुणविभूषोक्ता अधुना तत्साम्याद् वृक्षविभूषामाह- चउव्विहेत्यादि, अथवा पूर्वमुञ्छजीविकासंपन्न: साधुपुरुष उक्तः, तस्य च वैक्रियलब्धिमतस्तथाविधप्रयोजने वृक्षं विकुर्वतो यद्विधा 15 तद्विक्रिया स्यात्तामाह- चउव्विहेत्यादि पातनयैवोक्तार्थम्, नवरं प्रवालतयेति नवाङ्कुरतयेत्यर्थः । [सू० ३४५] चत्तारि वादिसमोसरणा पन्नत्ता, तंजहा-किरियावादी, अकिरियावादी, अण्णाणियवादी, वेणइयवादी । णेरइयाणं चत्तारि वादिसमोसरणा पन्नत्ता, तंजहा-किरियावादी जाव 20 वेणतियवादी, एवमसुरकुमाराण वि जाव थणितकुमाराणं, एवं विगलिंदियवजं जाव वेमाणियाणं । [टी०] एते हि पूर्वोक्ता आख्यायकादयः पुरुषास्तीर्थिका इति तेषां स्वरूपाभिधानायाहचत्तारीत्यादि । वादिनः तीर्थकाः, समवसरन्ति अवतरन्त्येष्विति समवसरणानि विविधमतमीलकाः, तेषां समवसरणानि वादिसमवसरणानि, क्रियां 25 १. सदृशो जे१ ॥ २. सदृक्षमा खं० ॥ |-A-14 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy