________________
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे
'जीवाजीवादिरर्थोऽस्ती' त्येवंरूपां वदन्तीति क्रियावादिन आस्तिका इत्यर्थः, तेषां यत् समवसरणं तत्त एवोच्यन्ते अभेदादिति, तन्निषेधादक्रियावादिनो नास्तिका इत्यर्थः, अज्ञानमभ्युपगमद्वारेण येषामस्ति ते अज्ञानिकाः, त एव वादिनोऽज्ञानिकवादिनः, अज्ञानमेव श्रेय इत्येवंप्रतिज्ञा इत्यर्थः, विनय एव वैनयिकम्, तदेव निःश्रेयसायेत्येवंवादिनो 5 वैनयिकवादिन इति, एतद्भेदसङ्ख्या चेयम्
४५८
असियसयं किरियाणं अकिरियवाईण होइ चुलसीई ।
अन्नाणिय सत्तट्ठी वेणइयाणं च बत्तीसा | [ सूत्र० नि० ११९] इति ।
तत्राशीत्यधिकं शतं क्रियावादिनां भवति, इदं चामुनोपायेनावगन्तव्यम् - जीवाऽजीवा-ऽऽश्रव-संवर-बन्ध-निर्जरा- पुण्या-ऽपुण्य- मोक्षाख्यान् नव पदार्थान् विरचय्य 10 परिपाट्या जीवपदार्थस्याधः स्व- परभेदावुपन्यसनीयौ, तयोरधो नित्या -ऽनित्यभेदौ, तयोरप्यधः कालेश्वरा-ऽऽत्म-नियति-स्वभावभेदाः पञ्च न्यसनीयाः, पुनश्चेत्थं विकल्पाः कर्त्तव्याः– अस्ति जीवः स्वतो नित्यः कालत इत्येको विकल्पः, विकल्पार्थश्चायम्विद्यते खल्वयमात्मा स्वेन रूपेण न परापेक्षया ह्रस्वत्व-दीर्घत्वे इव, नित्यश्च कालवादिनः, उक्तेनैवाभिलापेन द्वितीयो विकल्प ईश्वरकारणिनः, तृतीयों विकल्प आत्मवादिनः पुरुष 15 एवेदं ग्नि [ ]मित्यादिप्रतिपत्तुरिति, चतुर्थो नियतिवादिनः, नियतिश्च पदार्थानामवश्यन्तया यद्यथाभवने प्रयोजककर्त्रीति, पञ्चमः स्वभाववादिनः, एवं स्वत इत्यजहता लब्धाः पञ्च विकल्पाः, परत इत्यनेनापि पञ्चैव लभ्यन्ते, तत्र परत इत्यस्यायमर्थः - इह सर्वपदार्थानां पररूपापेक्षः स्वरूपपरिच्छेदो यथा ह्रस्वत्वाद्यपेक्षो दीर्घत्वादिपरिच्छेदः, एवमेव चात्मनः स्तम्भ- कुम्भादीन् समीक्ष्य तद्व्यतिरिक्ते हि वस्तुन्यात्मबुद्धिः प्रवर्त्तत इत्यतो यदात्मनः 20 स्वरूपं तत् परत् एवावधार्यते न स्वत इति, नित्यत्वापरित्यागेन चैते दश विकल्पाः, एवमनित्यत्वेनापि दशैव, एवं विंशतिर्जीवपदार्थेन लब्धाः, अजीवादिष्वप्यष्टस्वेवमेव प्रतिपदं विंशतिर्विकल्पानामतो विंशतिर्नवगुणा शतमशीत्युत्तरं क्रियावादिनामिति, एते च विकल्पा एकैकशो न लभ्यन्ते शीलाङ्गवदिति ।
तथा अक्रियावादिनां चतुरशीतिर्द्रष्टव्या, एवं चेयम् - पुण्यापुण्यविवर्जित25 पदार्थसप्तकन्यासस्तथैव, जीवस्याधः स्व- पररूपविकल्पद्वयोपन्यासः, असत्त्वादात्मनो १. 'च्यते पा० जे२ ॥ २: दृश्यताम् ६०७ तम सूत्रटीका टिप्पनं च । ऋग्वेदे यजुर्वेदे चेदं वर्तते ॥ ३. 'वादिनां तु चतु पा० २ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org