________________
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे
तदुभयशल्यम् ३, चतुर्थः शून्य इति ४ । गुरुसमक्षमनालोचितत्वेनाऽन्तः शल्यम् अतिचाररूपं यस्य स तथा, बहिः शल्यम् आलोचिततया यस्य स तथा, अन्तर्बहिश्च शल्यमालोचितानालोचितत्वेन यस्य स तथा, चतुर्थः शून्यः ।
अन्तर्दुष्टं व्रणं लूतादिदोषतः, न बही रागाद्यभावेन सौम्यत्वात् ४, पुरुषस्तु 5 अन्तर्दुष्टः शठतया संवृताकारत्वान्न बहिरित्येकः, अन्यस्तु कारणेनोपदर्शितवाक्पारुष्यादित्वाद् बहिरेवेति ४।
पुरुषाधिकारात् तद्भेदप्रतिपादनाय षट्सूत्री कण्ठ्या च, किन्तु अतिशयेन प्रशस्यः श्रेयानेकः प्रशस्यभावः सद्बोधत्वात्, पुनः श्रेयान् प्रशस्तानुष्ठानत्वात् साधुवदित्येकः १, अन्यस्तु श्रेयांस्तथैव, अतिशयेन पापः पापीयान् स चाविरतत्वेन दुरनुष्ठायित्वादिति 10 २, अन्यस्तु पापीयान् भावतो मिथ्यात्वादिभिरुपहतत्वात् कारणवशात् सदनुष्ठायित्वाच्च
श्रेयान् उदायिनृपमारकवत् ३, चतुर्थः स एव कृतपाप इति ४ । अथवा श्रेयान् गृहस्थत्वे निष्क्रमणकाले वा, पुनः श्रेयान् प्रव्रज्यायां विहारकाले वेत्येवमन्येऽपि ।
श्रेयानेको भावतो द्रव्यतस्तु श्रेयान् प्रशस्यतर इत्येवंबुद्धिजनकत्वेन सदृशकः अन्येन श्रेयसा तुल्यो न तु सर्वथा श्रेयानेवेत्येकः १, अन्यस्तु भावतः श्रेयानपि द्रव्यतः 15 पापीयानित्येवंबुद्धिजनकत्वेन सदृशकः अन्येन पापीयसा समानो न तु पापीयानेवेति द्वितीयः २, भावतः पापीयानप्यन्यः संवृताकारतया श्रेयानित्येवं सदृशकोऽन्येन श्रेयसेति तृतीयः ३, चतुर्थः सुज्ञानः ४।
श्रेयानेकः सद्वृत्तत्वात् श्रेयानित्येवमात्मानं मन्यते यथावद् बोधात् लोकेन वा मन्यते विशदशुभानुष्ठानाद्, इह च मन्निज्जइति वक्तव्ये प्राकृतत्वेन मन्नइ इत्युक्तम् 20 १, श्रेयानप्यन्य आत्मन्यरुचिपरायणत्वात् पापीयानित्यात्मानं मन्यते, स एव वा पूर्वोपलब्धतद्दोषेण जनेन मन्यते दृढप्रहारिवत् २, पापीयानप्यपरो मिथ्यात्वाद्युपहततया श्रेयानित्यात्मानं मन्यते, कुतीर्थिकवत्, तद्भक्तेन वेति ३, पापीयानन्योऽविरतिकत्वात् पापीयानित्यात्मानं मन्यते, सद्बोधत्वात्, असंयतो वा मन्यते संयतलोकेनेति ४ । श्रेयानेको भावतो द्रव्यतस्तु किञ्चित्सदनुष्ठायित्वात् श्रेयानित्येवंविकल्पजनकत्वेन १. रोगा पा० ॥ २. मन्नइत्यु जे१ खं० । मन्नईत्यु पा० ॥
४५६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org