________________
[सू० ३३७-३३८] चतुर्थमध्ययनं चतुः स्थानकम् । तृतीय उद्देशकः ।
प्रदेशान्तरवेदित्यादि कार्यानुपलब्ध्यनुमानं तथा वृक्षनास्तित्वात् शिंशपा नास्तीत्यादि व्यापकानुपलम्भानुमानं तथाऽग्नेर्नास्तित्वाद्भूमो नास्तीत्यादि कारणानुपलम्भानुमानं च चतुर्थभङ्गकेनावरुद्धमिति ४ । न च वाच्यं न जैनप्रक्रियेयम्, सर्वत्र जैनाभिमता• न्यथानुपपन्नत्वरूपस्य हेतुलक्षणस्य विद्यमानत्वादिति।
[सू० ३३७] चउव्विहे संखाणे पन्नत्ते, तंजहा - पडिकम्मं, ववहारे,
रासी ।
[ टी०] अनन्तरं हेतुशब्देन ज्ञानविशेष उक्तस्तदधिकाराद् ज्ञानविशेषनिरूपणायाहचउव्विहेत्यादि, सङ्ख्यायते गण्यते अनेनेति सङ्ख्यानं गणितमित्यर्थः, तत्र परिकर्म सङ्कलनादिकं पाटीप्रसिद्धम्, एवं व्यवहारोऽपि मिश्रकव्यवहारादिरनेकधा, रज्जुरिति रज्जुगणितं क्षेत्र गणितमित्यर्थः, राशिरिति त्रैराशिक-पञ्चराशिकादीति ।
[सू० ३३८ ] अहेलोगे णं चत्तारि अंधगारं करेंति, तंजहा- णरगा, णेरइया, पावाई कम्माई, असुभा पोग्गला १।
तिरियलोगे णं चत्तारि उज्जोतं करेंति, तंजहा - चंदा, सूरा, मणी, जोती २ | उड्डलोगे णं चत्तारि उज्जोतं करेंति, तंजहा- देवा, देवीओ, विमाणा,
आभरणा ३।
१. 'वदिति कार्या' जे१ ॥
४४९
Jain Education International
रज्जू,
For Private & Personal Use Only
5
॥ चउट्ठाणस्स ततिओ उद्देसओ समत्तो ॥
[ टी०] रज्जुरिति क्षेत्रगणितमुक्तमिति क्षेत्रसम्बन्धाल्लोकलक्षणक्षेत्रस्य त्रिधा विभक्तस्यान्धकारोयोतावाश्रित्य सूत्रत्रयेण प्ररूपणामाह - अहे इत्यादि सुगमम्, किन्तु अधोलोके उक्तलक्षणे चत्वारि वस्तूनीति गम्यते, नरका नारकावासाः, नैरयिका नारकाः, एते कृष्णस्वरूपत्वात् अन्धकारं कुर्वन्ति, पापानि कर्माणि ज्ञानावरणादीनि 20 मिथ्यात्वाज्ञानलक्षणभावान्धकारकारित्वादन्धकारं कुर्वन्तीत्युच्यते, अथवा अन्धकारस्वरूपे अधोलोके प्राणिनामुत्पादकत्वेन पापानां कर्म्मणामन्धकारकर्तृत्वमिति, तथा अशुभाः पुद्गलाः तमिश्रभावेन परिणता इति । मणि त्ति मणयः चन्द्रकान्ताद्याः, जोइ ज्योतिरग्निरिति ।
॥ चतुः स्थानकस्य तृतीयोदेशको विवरणतः समाप्तः ।।
10
15
25
www.jainelibrary.org