________________
४४८
तस्यामेव त्ववस्थायां यद्विज्ञानं प्रवर्त्तत्ते ।
पशुनैतेन तुल्योऽसौ गोपिण्ड इति सोपमा ॥ [
अथवा श्रुतातिदेशवाक्यस्य समानार्थोपलम्भने संज्ञासंज्ञिसम्बन्धज्ञानमुपमानमुच्यत इति। आगम्यन्ते परिच्छिद्यन्ते अर्था अनेनेत्यागमः आप्तवचनसम्पाद्यो विप्रकृष्टार्थप्रत्ययः,
5 उक्तं च
10
आचार्यश्री अभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे
दृष्टेष्टाव्याहताद् वाक्यात् परमार्थाभिधायिनः । तत्त्वग्राहितयोत्पन्नं मानं शाब्दं प्रकीर्त्तितम् ॥
] इति,
आप्तोपज्ञमनुल्लङ्घ्यमदृष्टेष्टविरोधकम् ।
तत्त्वोपदेशकृत् सार्वं शास्त्रं कापथघट्टनम् ॥ [ न्याया० ८ - ९] इति ।
इहाऽन्यथानुपपन्नत्वलक्षणहेतुजन्यत्वादनुमानमेव कार्ये कारणोपचाराद्धेतुः, स च चतुर्विधः, चतुर्भङ्गीरूपत्वात्, तत्र अस्ति विद्यते तदिति लिङ्गभूतं धूमादिवस्तु इति कृत्वा, अस्ति सः अग्न्यादिकः साध्योऽर्थ इत्येवं हेतुरिति अनुमानम् । तथा अस्ति तदग्न्यादिकं वस्त्वतो नास्त्यसौ तद्विरुद्धः शीतादिरर्थ इत्येवमपि हेतुरनुमानमिति । तथा नास्ति तदग्न्यादिकमतः शीतकालेऽस्ति स शीतादिरर्थ इत्येवमपि हेतुरनुमानमिति । 15 तथा नास्ति तद् वृक्षत्वादिकमिति नास्ति शिंशपात्वादिकोऽर्थ इत्यपि हेतुरनुमानमिति, इह च शब्दे कृतकत्वस्यास्तित्वादस्त्यनित्यत्वं घटवत्तथा धूमस्यास्तित्वादिहास्त्यग्निर्महानस इवेत्यादिकं स्वभावानुमानं कार्यानुमानं च प्रथमभङ्गकेन सूचितम् १, तथा अग्नेरस्तित्वाद् धूमास्तित्वाद्वा नास्ति शीतस्पर्श इत्यादि विरुद्धोपलम्भानुमानं विरुद्धकार्योपलम्भानुमानं च तथाऽग्नेर्धूमस्य वाऽस्तित्वान्नास्ति शीतस्पर्शजनित20 दन्तवीणा-रोमहर्षादिः पुरुषविकारो महानसवदित्यादि कारणविरुद्धोपलम्भानुमानं कारणविरुद्धकार्योपलम्भानुमानं च द्वितीयभङ्गकेनाभिहितम् २, तथा छत्रादेरग्नेर्वा नास्तित्वादस्ति क्वचित् कालादिविशेषे आतपः शीतस्पर्शो वा पूर्वोपलब्धप्रदेश इवेत्यादिकं विरुद्धकारणानुपलम्भानुमानं विरुद्धानुपलम्भानुमानं च तृतीयभङ्गकेनोपात्तम् ३, तथा दर्शनसामग्र्यां सत्यां घटोपलम्भस्य नास्तित्वान्नास्तीह घटो विवक्षितप्रदेशवदित्यादि 25 स्वभावानुपलब्ध्यनुमानं तथा धूमस्य नास्तित्वान्नास्त्यविकलो धूमकारणकलापः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org