________________
४४७
[सू० ३३६] चतुर्थमध्ययनं चतुःस्थानकम् । तृतीय उद्देशकः । घटस्वरूपवत्, अथास्तित्वं जीवादौ न वर्त्तते ततो जीवाद्यभावः स्यादस्तित्वाभावादिति व्यंसकः प्रतिवादिनो व्यामोहकत्वादिति ।
तथा लूसए त्ति लूषयति मुष्णाति व्यंसकापादितमनिष्टमिति लूषको हेतुः, स एव शाकटिकः, यथा धूर्तान्तरशिक्षितेन हि शाकटिकेन तेन याचितोऽसौ धूर्तः- तर्हि देहि मे तर्पणालोडिकामिति, ततो धूर्तेनोक्ता स्वभार्या देह्यस्मै सक्तूनालोड्येति, तां च तथा 5 कुर्वन्तीं तद्भार्यां गृहीत्वाऽसौ प्रस्थितोऽवादीच्च धूर्तमभि मदीयेयम्, तर्पणमिति सक्तूनालोडयतीति तर्पणालोडिकेति भवतैव दत्तत्वादिति, स चायम्- यदि जीवघटयोरस्तित्ववृत्त्या एकत्वं सम्भावयसि तदा सर्वभावानामे कत्वं स्यात्, सर्वेष्वप्यस्तित्ववृत्तेरविशेषात्, न चैवमिति, इहास्तित्ववृत्तेरविशेषादित्ययं लूषको जीवघटयोरेकत्वापादनलक्षणस्याभावापत्तिलक्षणस्य वाऽनिष्टस्य परापादितस्यानेन 10 लूषितत्वादिति ।
अथवेति हेतोः प्रकारान्तरताद्योतको विकल्पार्थो हिनोति गमयति प्रमेयमर्थं स वा हीयते अधिगम्यते अनेनेति हेतुः, प्रमेयस्य प्रमितौ कारणम्, प्रमाणमित्यर्थः, चतुर्विधः स्वरूपादिभेदात्, तत्र पच्चक्खे त्ति अश्नाति अश्नुते व्याप्नोत्यानित्यक्षः आत्मा, तं प्रति यद्वर्त्तते ज्ञानं तत् प्रत्यक्षं निश्चयतोऽवधि-मनःपर्याय-केवलानि, अक्षाणि वेन्द्रियाणि 15 प्रति यत्तत् प्रत्यक्ष व्यवहारतस्तच्चक्षुरादिप्रभवमिति, लक्षणमिदमस्य
अपरोक्षतयाऽर्थस्य, ग्राहकं ज्ञानमीदृशम् । प्रत्यक्षमितरज् ज्ञेयं परोक्षं ग्रहणेक्षया ॥ [न्याया० ४] ग्रहणापेक्षयेति भावः । अन्विति लिङ्गदर्शन-सम्बन्धानुस्मरणयोः पश्चान्मानं ज्ञानमनुमानम्, एतल्लक्षणमिदम्साध्याविनाभुवो लिङ्गात्, साध्यनिश्चायकं स्मृतम् ।
20 अनुमानं तदभ्रान्तं प्रमाणत्वात् समक्षवद् ॥ [न्याया० ५] इति, एतच्च साध्याविनाभूतहेतुजन्यत्वेनाप्युपचाराद्धेतुरिति । तथा उपमानमुपमा, सैवौपम्यम्, अनेन गवयेन सदृशोऽसौ गौरिति सादृश्यप्रतिपत्तिरूपम्, उक्तं च
गां दृष्ट्वाऽयमरण्येऽन्यं गवयं वीक्षते यदा । भूयोऽवयवसामान्यभाजं वर्तुलकण्ठकम् ॥
25
१. त्यक्षमात्मा जे१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org