________________
४४६
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे पक्षे बौद्धस्य सत्त्वादिति हेतुः, नहि सत्त्वश्रवणादेव क्षणिकत्वं प्रत्येति पर इत्यतो बौद्धः सत्त्वं क्षणिकत्वेन व्याप्तमिति प्रसाधयितुमुपक्रमते, तथाहि- सत्त्वं नामार्थक्रियाकारित्वमेव, अन्यथा वन्ध्यासुतस्यापि सत्त्वप्रसङ्गः, अर्थक्रिया तु नित्यस्यैकरूपत्वान्न क्रमेण नापि यौगपोन क्षणान्तरे अकर्तृत्वप्रसङ्गादित्यतोऽर्थक्रियालक्षणं सत्त्वमक्षणिकान्निवर्तमानं 5 क्षणिक एवावतिष्ठत इत्येवं क्षेपेण साध्यसाधने कालयापनाकारित्वाद् यापकः सत्त्वलक्षणो हेतुरिति.।
तथा स्थापयति पक्षमक्षेपेण प्रसिद्धव्याप्तिकत्वात् समर्थयति, यथा परिव्राजकधूर्ते लोकमध्यभागे दत्तं बहुफलं भवति तं चाहमेव जानामीति मायया प्रतिग्राममन्यान्यं
लोकमध्यं प्ररूपयति सति तन्निग्रहाय कश्चित् श्रावको लोकमध्यस्यैकत्वात् कथं बहुषु 10 ग्रामादिषु तत्सम्भव इत्येवंविधोपपत्त्या त्वद्दर्शितो भो लोकमध्यभागो न भवतीति पक्षं स्थापितवानिति स्थापको हेतुः, उक्तं च
लोगस्स मज्झजाणण थावगहेऊ उदाहरणं [दशवै० नि० ८८] ति ।
स चायम्- अग्निरत्र धूमात्, तथा नित्यानित्यं वस्तु द्रव्य-पर्यायतस्तथैव प्रतीयमानत्वादिति, अनयोश्च प्रतीतव्याप्तिकतया अकालक्षेपेण साध्यस्थापनात् 15 स्थापकत्वमिति ।
___ तथा व्यंसयति परं व्यामोहयति शकटतित्तिरीग्राहकधूर्त्तवद् यः स व्यंसक इति, तथाहि- कश्चिदन्तराललब्धमृततित्तिरीयुक्तेन शकटेन नगरं प्रविष्टः उक्तो धूर्तेन यथाशकटतित्तिरी कथं लभ्यते ?, स च किलायं शकटस्य सत्कां तित्तिरी याचत
इत्यभिप्रायादवोचत् तर्पणालोडिकयेति सक्त्वालोडनेन, जलाद्यालोडितसक्तुभिरित्यर्थः, 20 ततो धूर्तः साक्षिण आहृत्य सतित्तिरीकं शकटं जग्राह, उक्तवांश्च मदीयमेतद्, अनेनैव
शकटतित्तिरीति दत्तत्वात्, मया तु शकटसहिता तित्तिरी शकटतित्तिरीति गृहीतत्वादिति, ततो विषण्णः शाकटिक इति, अत्रोक्तम्
सा सगडतित्तिरी वंसगम्मि हेउम्मि होइ णायव्वा॥ [दशवै० नि० ८९] इति ।
स चैवम्- अस्ति जीवोऽस्ति घट इत्यभ्युपगमे जीव-घटयोरस्तित्वमविशेषेण वर्त्तते 25 ततस्तयोरेकत्वं प्राप्तमभिन्नशब्दविषयत्वादिति व्यंसको हेतुः, घटशब्दविषय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org