________________
४४५
10
[सू० ३३६] चतुर्थमध्ययनं चतुःस्थानकम् । तृतीय उद्देशकः । दृष्टान्ततयोपन्यस्तत्वाद्धेतूपन्यासोपनयज्ञाततेति, इह च किञ्चिद्विशेषेणैवंविधा ज्ञातभेदाः सम्भवन्त्यन्येऽपि किन्तु ते न विवक्षिताः, अन्तर्भावो वा कथञ्चित् गुरुभिर्विवक्षितो न च तं वयं सम्यग् जानीम इति । [सू०३३६] हेऊ चउव्विहे पन्नत्ते, तंजहा-जावते, थावते, वंसते, लूसते १॥ अहवा हेऊ चउव्विहे पन्नत्ते, तंजहा-पच्चक्खे, अणुमाणे, ओवम्मे, आगमे २। 5
अहवा हेऊ चउव्विहे पन्नत्ते, तंजहा-अत्थि तं अत्थि सो हेऊ, अत्थि तं णत्थि सो हेऊ, णत्थि तं अत्थि सो हेऊ, णत्थि तं णत्थि सो हेऊ ३।
[टी०] अथ ज्ञातानन्तरं ज्ञातवद्धतोः साध्यसिद्ध्यङ्गत्वात् तद्भेदान् हेऊ इत्यादिना सूत्रत्रयेणाह, व्यक्तं चैतत्, नवरं हिनोति गमयति ज्ञेयमिति हेतुः अन्यथाऽनुपपत्तिलक्षणः, उक्त च
अन्यथाऽनुपपन्नत्वं हेतोर्लक्षणमीरितम् । तदप्रसिद्धि-सन्देह-विपर्यासैस्तदाभता ॥ [न्याया० २२] इति ।
प्रागुक्तश्च हेतुः पर्यनुयुक्तस्योत्तररूपमुपपत्तिमात्रम्, अयं तु साध्यं प्रत्यन्वयव्यतिरेकवान् तथाविधदृष्टान्तस्मृततद्भाव इति, स चैकलक्षणोऽपि किञ्चिद्विशेषाच्चतुर्द्धा, तत्र जावए त्ति यापयति वादिनः कालयापनां करोति, यथा काचिदसती एकैकरूपकेण 15 एकैकमुष्ट्रलिण्डं दातव्यमिति दत्तशिक्षस्य पत्युस्तद्विक्रयार्थमुज्जयनीप्रेषणोपायेन विटसेवायां कालयापनां कृतवतीति यापकः, उक्तं च
उन्भामिया य महिला जावगहेउम्मि उट्टलिंडाइं ॥ [दशवै० नि० ८८] ति । ।
इह वृद्धाख्यातम्- प्रतिवादिनं ज्ञात्वा तथा तथा विशेषणबहलो हेतुः कर्त्तव्यो यथा कालयापना भवति, ततोऽसौ नावगच्छति प्रकृतमिति, स चेदृशः सम्भाव्यते- 20 सचेतना वायवः, अपरप्रेरणे सति तिर्यगनियतत्वाभ्यां गतिमत्त्वात्, गोशरीरवदिति, अयं हि हेतुर्विशेषणबहुलतया परस्य दुरधिगमत्वात् वादिनः कालयापनां करोति, स्वरूपमस्यानवबुध्यमानो हि परो न झगित्येवानैकान्तिकत्वादिदूषणोद्भावनाय प्रवर्तितुं शक्नोति, अतो भवत्यस्माद् वादिनः कालयापनेति । अथवा योऽप्रतीतव्याप्तिकतया व्याप्तिसाधकप्रमाणान्तरसव्यपेक्षत्वान्न झगित्येव साध्यप्रतीतिं करोति अपि तु 25 कालक्षेपेणेत्यसौ साध्यप्रतीतिं प्रति कालयापनाकारित्वाद्यापकः, यथा क्षणिकं वस्त्विति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org