________________
४४४
४४४ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे अयमभिप्रायो यथा जलाद्याश्रितत्वात् जलचरादितया तानि सम्पद्यन्ते तथा मनुष्याद्याश्रिततया मनुष्यादिभवयूकादितयाऽपि सम्पद्यन्ताम्, आश्रितत्वस्याविशेषात्, न च तानि तथाऽभ्युपगम्यन्त इति जलादिगतानामपि जलचरत्वाद्यसम्भव इति ।
तथा पडिनिभे त्ति यत्रोपन्यासोपनये वादिनोपन्यस्तवस्तुनः सदृशं 5 वस्तूत्तरदानायोपनीयते स प्रतिनिभः, यथा कोऽपि प्रतिजानीने यदुत यो मामपूर्वं
श्रावयति तस्मै लक्षमूल्यमिदं करोटकं ददामीति, स च श्रावितोऽपि तन्नापूर्वमिति प्रतिपद्यते, तत एकेन सिद्धपुत्रेणोक्तम्
तुज्झ पिया मज्झ पिउणो धारेइ अणूणयं सयसहस्सं । ___ जइ सुयपुव्वं दिज्जउ अह न सुयं खोरयं देहि ॥ [दशवै० नि० ८६] इति ।। 10 प्रतिनिभता चास्य सर्वस्मिन्नप्युक्ते 'श्रुतपूर्वमेवेदं मम' इत्येवमसत्यं वचो ब्रुवाणस्य
परस्य निग्रहाय ‘तव पिता मम पितुर्धारयति लक्षम्' इत्येवंविधस्य द्विपाशरज्जुकल्पस्यासत्यस्यैव वचस उपन्यस्तत्वादिति, अस्य चोपपत्तिमात्र-रूपस्याप्यर्थज्ञापकतया ज्ञातत्वमुक्तमिति, अथवा यथारूढमेव ज्ञातमेषः, तथाहि- अत्रायं प्रयोगः- नास्त्यश्रुतपूर्वं किञ्चित् श्लोकादि ममेत्येवमभिमानधन ! ब्रूमो वयम्- अस्ति तवाश्रुतपूर्वं वचनं तव 15 पिता मम पितु रयत्यन्यूनं शतसहस्रमिति यथेति ।
तथा हेउ त्ति यत्रोपन्यासोपनये पर्यनुयोगस्य हेतुरुत्तरतयाऽभिधीयते स हेतुरिति, यथा केनापि कश्चित् पर्यनुयुक्तः- अहो किं यवाः क्रीयन्ते त्वया ?, स त्वाह- येन मुधैव न लभ्यन्ते इति, तथा कस्मात् ब्रह्मचर्यादिकष्टमनुष्ठीयते ?, यस्मादकृततपसां नरकादौ
गुरुतरा वेदना भवतीति, इदमपि उपपत्तिमात्रमेव ज्ञातत्वेनोक्तमर्थज्ञापकत्वादिति । 20 अथवाऽयमपि यथारूढं ज्ञातमेव, तथाहि- अस्यैवं प्रयोग:- कस्मात् त्वया प्रव्रज्या क्रियत इति पृष्टः सन् केनापि साधुराह– यतस्तां विना मोक्षो न भवति, एतत्समर्थनायैव साधुस्तमाह– भो यवग्राहिन् ! किमिति त्वया यवाः क्रीयन्ते ?, स त्वाह- येन मुधा न लभ्यन्ते, साधोश्चायमभिप्रायो यथा मुधालाभाभावात् तान् क्रीणासि त्वमेवमहं तां विना तदभावात्तां करोमीति, इह च मुधा यवालाभस्य क्रयणे हेतोः सतो
१. कटोरकं पा० जे२ ॥ २. धम पामू० । धन: पासं० । धर्मो जे२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org