________________
४४३
[सू० ३३५] चतुर्थमध्ययनं चतुःस्थानकम् । तृतीय उद्देशकः । स्वीकुर्यात्, तन्न क्षणान्तरानारम्भे वस्तुत्वमित्यतो भवति दीपज्ञातं स्वमतदूषणावहमिति, अथवा अनित्यः शब्दः कृतकत्वाद् घटवदिति वक्तव्ये सम्भ्रमादनित्यो घटः कृतकत्वाच्छब्दवदिति वदतो दुरुपनीतं विपर्ययोपनयनादिति, अत्र गाथाःपढमं अहम्मजुत्तं पडिलोमं अत्तणो उवन्नासो । दुरुवणियं च चउत्थं अहम्मजुत्तम्मि नलदामो ॥ पडिलोमे जह अभओ पज्जोयं हरइ अवहिओ संतो ॥ त्ति । अत्तउवन्नासम्मि य तलायभेयम्मि पिंगलो थवई । अणिमिसगेण्हणभिक्खुग दुरुवणीए उदाहरणं ॥ [दशवै० नि० ८१-८३] इति ।
उक्त आहरणतद्दोषः, अधुनोपन्यासोपनय उच्यते, स च चतुर्द्धा, तत्र तव्वत्थुए त्ति तदेव परोपन्यस्तसाधनं वस्त्विति उत्तरभूतं वस्तु यस्मिन्नुपन्यासोपनये स तद्वस्तुकः, 10 अथवा तदेव परोपन्यस्तं वस्तु तद्वस्तु, तदेव तद्वस्तुकम्, तद्युक्त उपन्यासोपनयोऽपि तद्वस्तुक इत्युच्यते एवमुत्तरत्रापि, यथा कश्चिदाह- समुद्रतटे महान् वृक्षोऽस्ति, तच्छाखा जल-स्थलयोरुपरि स्थिताः, तत्पत्राणि च यानि जले निपतन्ति तानि जलचरा जीवा भवन्ति यानि च स्थले निपतन्ति तानि स्थलचरा इति, अन्यस्तदुपन्यस्तमेव तरुपत्रपतनवस्तु गृहीत्वा तदुक्तं विघटयति, यदत- यानि पुनर्मध्ये तेषां का वार्तेति ? 15 एतदुपपत्तिमात्रमुत्तरभूतं तद्वस्तुक उपन्यासोपनयः, ज्ञातत्वं चास्य ज्ञाननिमित्तत्वात्, अथवा यथारूढमेव ज्ञातमेतत्, तथाहि- एवं प्रयोगोऽस्य- जल-स्थलपतितपत्राणि न जलचरादिसत्त्वाः सम्भवन्ति, जल-स्थलमध्यपतितपत्रवत्, तन्मध्यपतितपत्राणां हि जल-स्थलपतितपत्रजलचरत्वादिप्राप्तिवदुभयरूपप्रसङ्गः, न चोभयरूपाः सत्त्वा अभ्युपगता इति, अथवा नित्यो जीव अमूर्त्तत्वादाकाशवदित्युक्ते आह– अनित्य एवास्तु अमूर्त्तत्वात् 20 कर्मवदिति ।
तथा तयन्नवत्थुए त्ति तस्मात् परोपन्यस्ताद् वस्तुनोऽन्यदुत्तरभूतं वस्तु यस्मिन्नुपन्यासोपनये स तदन्यवस्तुको यथा जले पतितानि जलचरा इत्युक्ते एतद्विघटनाय पतनादन्यदुत्तरमाह यानि पुनः पातयित्वा खादति नयति वा तानि किं भवन्ति ?, न किञ्चिदित्यर्थोऽयमपि ज्ञापकतया ज्ञातमुक्तः, अथवा यथारूढमेव ज्ञातमेषः, तथाहि- 25 न जल-स्थलपतितानि पत्राणि जलचरादिसत्त्वाः सम्भवन्ति, मनुष्याद्याश्रितानीव,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org