SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ ४४२ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे - अत्तोवणीए त्ति आत्मैवोपनीत: तथा निवेदितो नियोजितो यस्मिंस्तत्तथा, येन ज्ञातेन परमतदूषणायोपात्तेनात्ममतमेव दुष्टतयोपनीयते यथा पिङ्गलेनात्मा तदात्मोपनीतम्, तथाहि- कथमिदं तडागमभेदं भविष्यतीति राज्ञा पृष्टः पिङ्गलाभिधान: स्थपतिरवोचत् भेदस्थाने कपिलादिगुणे पुरुषे निखाते सतीति, अमात्येन तु स एव तत्र तद्गुणत्वान्निखात 5 इति तेनात्मैव नियुक्तः, स्ववचनदोषात्, तदेवंविधमात्मोपनीतमिति, अत्रोदाहरणम्यथा सर्वे सत्त्वा न हन्तव्या इत्यस्य पक्षस्य दूषणाय कश्चिदाह- अन्यधर्मस्थिता हन्तव्या विष्णुनेव दानवा इत्येवंवादिना आत्मा हन्तव्यतयोपनीतो धर्मान्तरस्थितपुरुषाणामिति, तद्दोषता तु प्रतीतैवास्येति । ___ दुरुवणीए त्ति दुष्टमुपनीतं निगमितं योजितमस्मिन्निति दुरुपनीतं परिव्राजकवाक्यवद्, 10 यथा हि किल कश्चित् परिव्राजको जालव्यग्रकरो मत्स्यबन्धाय चलित:, केनचिद् धूर्तेन किञ्चिदुक्तस्तेन च तस्योत्तरमसङ्गतं दत्तम्, अत्र च वृत्तम् कन्थाऽऽचार्याऽघना ते ननु शफरिवधे जालमनासि मत्स्यान् ?, ते मे मद्योपदंशा: पिबसि ननु ? युतो वेश्यया, यासि वेश्याम् ? । दत्त्वाऽरीणां गलेऽहिं क्व नु तव रिपवो ? येषु सन्धिं छिनधि, 15 चौरस्त्वम् ? द्यूतहेतो: कितव इति कथम् ? येन दासीसुतोऽस्मि ॥ [ ] इत्येवं प्रकृतसाध्यानुपयोगि स्वमतदूषणावह वा यत्तद्दार्टान्तिकेन सह साधाभावाद् दुरुपनीतमिति, यथा नित्यः शब्दो घटवद्, इह घटे नित्यत्वं नास्त्येवेति कुतस्तत्साधाच्छब्दस्य नित्यत्वमस्तु ?, अपि त्वनित्यत्वात् घटस्य तत्साधाच्छब्दस्यानित्यत्वमेवानभिमतं सिध्यतीति साध्यानुपयोगीदमुदाहरणम्, तथा 20 सन्तानोच्छेदो मोक्षो दीपस्येवेत्यभ्युपगमे दीपदृष्टान्तादनादिमतोऽपि सन्तानस्यावस्तुता प्रतीयते, तथाहि- दीपस्यात्मनश्च सन्तानोच्छेद उत्तरक्षणाजनकत्वात्, तत्त्वे चार्थक्रियाकारित्वलक्षणसत्त्वाभावादन्त्यक्षणस्यावस्तुत्वम्, अवस्तुजनकत्वात् पूर्वक्षणस्यापि, तत एव पूर्वतरस्यापीत्येवं समस्तस्यापि सन्तानस्यावस्तुत्वम्, अथ क्षणान्तरानारम्भेऽपि स्वगोचरज्ञानजननलक्षणाक्रियाकारित्वादन्त्यक्षणो वस्तु भविष्यति, 25 नैवम्, एवं हि भूतभाविपर्यायपरम्पराऽपि योगिज्ञानं स्वविषयमुत्पादयतीति वस्तुत्वं १. शफरवधे पासं० जे२ ।। २. सिध्यति साध्या जे१ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy