SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ ४५० [अथ चतुर्थ उद्देशकः] [सू० ३३९] चत्तारि पसप्पगा पन्नत्ता, तंजहा-अणुप्पन्नाणं भोगाणं उप्पाएत्ता एगे पसप्पते, पुव्वुप्पन्नाणं भोगाणं अविप्पतोगेणं एगे पसप्पते, अणुप्पन्नाणं सोक्खाणं उप्पाएत्ता एगे पसप्पए, पुव्वुप्पन्नाणं सोक्खाणं अविप्पयोगेणं एगे 5 पसप्पए । [टी०] व्याख्यातस्तृतीयोद्देशकः, तदनन्तरं चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्धःइहानन्तरोद्देशके विविधा भावाश्चतु:स्थानकतयोक्ता इहापि त एव तथोच्यन्त इत्येवंसम्बन्धस्यास्योद्देशकस्येदमादिसूत्रं चत्तारि पसप्पगेत्यादि । अस्य चानन्तरसूत्रेण सहाऽयं सम्बन्धः- अनन्तरसूत्रे देवा देव्यश्च निर्दिष्टाः, ते च भोगवन्तः सुखिताश्च 10 भवन्तीति भोगान् सुखानि चाश्रित्य प्रसर्पकभेदाभिधानायेदमुच्यते, इत्येवंसम्बन्धस्यास्य व्याख्या- प्रकर्षेण सर्पन्ति गच्छन्ति भोगाद्यर्थं देशानुदेशं सञ्चरन्ति आरम्भ-परिग्रहतो वा विस्तारं यान्तीति प्रसर्पकाः, अणुप्पन्नाणं ति द्वितीयार्थे षष्ठीति अनुत्पन्नान् असम्पन्नान् भोगान् शब्दादीन् तत्कारणद्रविणा-ऽङ्गनादीन् वा उप्पाएत्त त्ति उत्पादयितुं सम्पादनाय अथवाऽनुत्पन्नानां भोगानामुत्पादयिता उत्पादकः सन् एकः कोऽपि प्रसर्पति 15 प्रगच्छति, प्रसर्पको वा प्रगन्ता भवतीति गम्यते, प्रसर्पन्ति च भोगाद्यर्थिनो देहिनः, उक्तं च धावेइ रोहणं तरइ सागरं भमइ गिरिनिगुंजेसु । मारेइ बंधवं पि हु पुरिसो जो होज्ज धणलुद्धो । अडइ बहुं वहइ भरं सहइ छुहं पावमायरइ धट्ठो । 20 कुल-सील-जातिपच्चयट्टिइं च लोभहुओ चयइ ॥ [ ] त्ति । तथा पूर्वोत्पन्नानां पाठान्तरेणात्युत्पन्नानां वा अविप्पयोगेणं ति अविप्रयोगाय रक्षणार्थमिति । सौख्यानामिति भोगसम्पाद्यानन्दविशेषाणाम्, शेषं सुगमम् । [सू० ३४०] जेरतिताणं चउव्विहे आहारे पन्नत्ते, तंजहा-इंगालोवमे, मुम्मुरोवमे, सीतले, हिमसीतले । 25 तिरिक्खजोणियाणं चउब्विहे आहारे पन्नत्ते, तंजहा-कंकोवमे, बिलोवमे, १. उप्पायत्त जे१ ॥ २. धिट्ठो पासं० जे२ ॥ ३. `ण प्रत्यु जेसं० १।। ४. रक्षार्थ' जे१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy