SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ [सू० ३३५] चतुर्थमध्ययनं चतुः स्थानकम् । तृतीय उद्देशकः । नित्यानित्यं न भवतीति दूषणमपोढमपि तु सर्वमनेकान्तात्मकमिति विकल्पज्ञातेन स्वमतं प्रसाधितम्, अतो विकल्पज्ञातं स्वमतस्थापनेन स्थापनाकर्मेति, अत्र निर्युक्तिगाथाठवणाकम्मं एक्वं अभेदमित्यर्थः, दिट्ठतो तत्थ पुंडरीयं तु । अहवा वि सन्नढक्कण हिंगुसिवकयं उदाहरणं ॥ [ दशवै० नि० ६७] ति । सव्यभिचारो वा हेतुर्यः सहसोपन्यस्तस्तस्य समर्थनार्थं यो दृष्टान्तः पुनरुपन्यस्यते 5 स स्थापनाकर्मेति, उक्तं च ४३९ सव्वभिचारं हेतुं सहसा वोत्तुं तमेव अन्नेहिं । उववूहइ सप्पसरं सामत्थं चऽप्पणो णाउं ॥ [ दशवै० नि० ६८ ] इति । तद्यथा- अनित्यः शब्दः कृतकत्वात्, अथ वर्णात्मके शब्दे कृतकत्वं न विद्यते वर्णानां नित्यतयाऽभिमतत्वादिति व्यभिचारः, समर्थना पुनर्वर्णात्मा शब्दः कृतकः, 10 निजकारणभेदेन भिद्यमानत्वात्, घटपटादिवत्, घटादिदृष्टान्तेन हि वर्णानां कृतकत्वं स्थापितमिति भवत्ययं स्थापनाकर्मेति । पडुप्पन्नविणासि त्ति प्रत्युत्पन्नस्य तत्कालोत्पन्नवस्तुनो विनाशोऽभिधेयतया यत्रास्ति तत् प्रत्युत्पन्नविनाशीति, यथा केनापि वणिजा दुहित्रादिस्त्रीपरिवारशीलविनाशरक्षार्थं तदासक्तिनिमित्तस्वगृहासन्नराजगान्धर्विकगुणनिकायाः स्वगृहे कुलदेवतानिवेशनाद् 15 गुणनिकाकाले तस्या देवताया अग्रतः आतोद्यनादव्याजेन राजापराधपरिहारेण विनाशः कृतः, एवं गुरुणा शिष्यान् क्वचिद् वस्तुन्यध्युपपद्यमानानुपलम्य तस्य तदासक्तिनिमित्तत्वमुपहन्तव्यमित्येवं प्रत्युत्पन्नविनाशनीयताज्ञापकत्वात् प्रत्युत्पन्नविनाशिज्ञातता गान्धर्विकाख्यानकस्यावगन्तव्येति, उक्तं च होंति पडुप्पन्नविणासणम्मि गंधव्विया उदाहरणं । सीसो वि कत्थ जई अज्झोवज्जेज तो गुरुणा ॥ वारेयव्वो उवाएणं [दशवै० नि० ६९-७०] ति । अथवा अकर्त्ताऽऽत्मा अमूर्त्तत्वादाकाशवदित्युत्पन्ने आत्मनोऽकर्तृत्वापत्तिलक्षणे दूषणे तद्विनाशायोच्यते- कर्तैवात्मा कथञ्चिन्मूर्त्तत्वाद् देवदत्तवदिति । व्याख्यातमाहरणम्, आहरणता चैतद्भेदानां देशेन दोषवत्तया चोपनयनाभावादिति । अथाहरणतद्देशो व्याख्यायते, स च चतुर्द्धा, तत्र अनुशासनमनुशास्तिः Jain Education International For Private & Personal Use Only 20 25 www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy