________________
४३८
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे
एमेव चउविगप्पो होइ उवाओ वि तत्थ दव्वम्मि । धाउव्वाओ पढमो णंगलकुलिएहिं खेत्तं तु ॥ कालो वि नालियाईहिं होइ भावम्मि पंडिओ अभओ ।
चोरस्स कए णट्टिय वड्डकुमारिं परिकहिंसु ॥ [दशवै० नि० ६१-६२] इति । 5 ठवणाकम्मे त्ति स्थापनं प्रतिष्ठापनं स्थापना, तस्या: कर्म करणं स्थापनाकर्म,
येन ज्ञातेन परमतं दूषयित्वा स्वमतस्थापना क्रियते तत् स्थापनाकर्मेति भावः, तच्च द्वितीयाङ्गे द्वितीयश्रुतस्कन्धे प्रथमाध्ययनं पुण्डरीकाख्यम्, तत्र ह्युक्तम्- अस्ति काचित् पुष्करिणी कईमप्रचुरजला, तन्मध्यदेशे महापुण्डरीकम्, तदुद्धरणार्थं चतसृभ्यो
दिग्भ्यश्चत्वारः पुरुषा: सकर्दममार्गः प्रवेष्टमारब्धाः, ते चाकृततदुद्धरणा एव पके 10 निमग्नाः, अन्यस्तु तटस्थोऽसंस्पृष्टकर्दम एवामोघवचनतया तदुद्धृतवानिति ज्ञातम्,
उपनयश्चायमत्र-कर्दमस्थानीया विषया:, पुण्डरीकं राजादिव्यपुरुष:, चत्वारः पुरुषा: परतीर्थिका:, पञ्चम: पुरुष: साधुः, अमोघवचनं धर्मदेशना, पुष्करिणी संसार:, तदुद्धारो निर्वाणमिति, अनेन च ज्ञातेन विषयाभिष्वङ्गवतां तीर्थिकानां भव्यस्य संसारानुत्तारकत्वं
साधोश्च तद्विपर्ययं वदता आचार्येण परमतदूषणेन स्वमतं स्थापितमतो भवतीदं ज्ञातं 15 स्थापनाकर्मेति।
अथवाऽऽपन्नं दूषणमपोह्य स्वाभिमतस्थापना कार्येत्येवंविधार्थप्रतिपत्तिर्यतो जायते तत् स्थापनाकर्म, किल मालाकारेण केनापि राजमार्गपुरीषोत्सर्गलक्षणापराधापोहाय तत्स्थाने पुष्पपुञ्जकरणेन किमिदमिति पृच्छतो लोकस्य हिंगुशिवो देवोऽयमिति वदता
व्यन्तरायतनस्थापना कृतेति, एतस्मात् किलाख्यानकादुक्तार्थः प्रतीयत इतीदं 20 स्थापनाकर्मेति । तथा नित्यानित्यं वस्त्वित्यसङ्गतं जिनमतं विरुद्धधर्माध्यासादिति
दूषणमापन्नम्, एतद्व्यपोहायोच्यते- विरुद्धधर्माध्यासो न भेदनिबन्धनं विकल्पस्येव, विकल्पो हि क्रमभाविवर्णोल्लेखवान् विरुद्धधर्मोपेतो भवति, न च कथञ्चिदेको न भवति, खण्डशो विभक्तस्य तस्य स्वरूपलाभाभावात् प्रवृत्ति-निवृत्त्योरकारणता स्यादसमञ्जसं चैवमिति, एवं च विरुद्धधर्माध्यासस्य कथञ्चिदभेदकत्वे सति न केवलं १. महत्पुण्ड पा० जे२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org