________________
[सू० ३३५] चतुर्थमध्ययनं चतुःस्थानकम् । तृतीय उद्देशकः ।। __ ४३७ विवक्षितद्रव्यादिविशेषवत्, उपादेयता वाऽस्य यत्राभिधीयते तदाहरणमुपाय इति, सोऽपि द्रव्यादिभिश्चतुर्थैव ।
तत्र द्रव्यस्य सुवर्णादेः प्रासुकोदकादेर्वा द्रव्यमेव वा उपायो द्रव्योपाय:, एतत्साधनमेतदुपादेयतासाधनं वाऽऽहरणमपि तथोच्यते, तत्प्रयोगश्चैवम्-अस्ति सुवर्णादिषूपाय:, उपायेनैव वा सुवर्णादौ प्रवर्तितव्यम्, तथाविधधातुवादसिद्धादिवदिति। 5 __ एवं क्षेत्रोपाय: क्षेत्रपरिकर्मणोपायः, यथा अस्त्यस्य क्षेत्रस्य क्षेत्रीकरणोपायो लाङ्गलादिस्तथाविधसाधुव्यापारो वा तेनैव वा प्रवर्तितव्यमत्र तथाविधान्यक्षेत्रवदिति, ___ एवं कालोपाय: कालज्ञानोपायः, यथा अस्ति कालस्य ज्ञाने उपाय: धान्यादेरिव, जानीहि वा कालं घटिकाच्छायादिनोपायेन तथाभूतगणितज्ञवदिति ।
एवं भावोपायः, यथा भावज्ञाने उपायोऽस्ति भावं वोपायतो जानीहि, 10 बृहत्कुमारिकाकथाकथनेन विज्ञातचौरादिभावाभयकुमारवदिति । तथाहि-किल राजगृहनगरस्वामिनः श्रेणिकराजस्य पुत्रोऽभयकुमाराभिधानो देवताप्रसादलब्धसर्वर्तुकफलादिसमृद्धारामस्याम्रफलानाम् अकालाम्रफलदोहदवद्भार्यादोहदपूरणार्थं चण्डालचौरेणापहरणे कृते चौरपरिज्ञानार्थं नाट्यदर्शननिमित्तमिलितबहुजनमध्ये बृहत्कुमारिकाकथामचकथत्, तथाहि-काचिद् बृहत्कुमारिका वाञ्छितवरलाभाय 15 कामदेवपूजार्थमारामे पुष्पाणि चोरयन्ती आरामपतिना गृहीता सद्भावकथने विवाहितया पत्या अपरिभुक्तया मत्पार्श्वे समागन्तव्यमित्यभ्युपगमं कारयित्वा मुक्ता, तत: कदाचित् विवाहिता सती पतिमापृच्छ्य रात्रावारामपतिपार्श्वे गच्छन्ती चौर-राक्षसाभ्यां गृहीता सद्भावकथने प्रतिनिवृत्तया भवत्पार्श्वे आगन्तव्यमितिकृताभ्युपगमा मुक्ता आरामे गता आरामिकेण सत्यप्रतिज्ञेत्यखण्डितशीला विसर्जिता इतराभ्यामपि तथैव विसर्जिता 20 पतिसमीपमागतेति, ततो भो लोका: ! पत्यादीनां मध्ये को दुष्करकारक इति चासौ पप्रच्छ, तत ईष्यालुप्रभृतय: पत्यादीन् दुष्करकारित्वेनाभिदधुः, चौरचाण्डालस्तु चौरानिति, ततोऽसावनेनोपायेन भावमुपलक्ष्य चौर इति कृत्वा तं बन्धयामासेति, अत्रापि गाथे१. वा तस्य यत्रा' जे१ । वा यत्रा' खं० ॥ २. चांडाल पा० जे२ ॥ ३. चंडाल पामू० जे२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org