SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ ४४० आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे सद्गुणोत्कीर्तनेनोपबृंहणम्, सा विधेयेति यत्रोपदिश्यते साऽनुशास्ति:, यथा गुणवन्तोऽनुशासनीया भवन्ति, यथा साधुलोचनपतितरजःकणापनयनेन लोकसम्भावितशीलकलङ्का तत्क्षालनायाराऽऽधितदेवताकृतप्रातिहार्या चालनीव्यवस्थापितोदकाच्छोटनोद्घाटितचंपागोपुरत्रया सुभद्रा अहो शीलवतीति 5 महाजनेनानुशासितेति, उक्तं च आहरणं तद्देसे चउहा अणुसट्टि तह उवालंभो । पुच्छा निस्सावयणं होइ सुभद्दाऽणुसट्ठीए ॥ साहुक्कारपुरोगं जह सा अणुसासिया पुरजणेणं । वेयावच्चाईसु वि एव जयंतेववूहेजा ॥ [दशवै० नि० ७३-७४] इति । 10 इह च तथाविधवैयावृत्यकरणादिनाप्युपनयः सम्भवति तत्त्यागेन च महाजनानुशास्तिमात्रेणोपनयः कृत इत्याहरणतद्देशतेति, एवमनभिमतांशत्यागादभिमतांशोपनयनमुत्तरेष्वपि भावनीयमिति। तथा उपालम्भनम् उपालम्भो भङ्ग्यन्तरेणानुशासनमेव स यत्राभिधीयते स उपालम्भो यथा क्वचिदपराधवृत्तयो विने या उपालम्भनीयाः, यथा महावीरसमवसरणे 15 सविमानागतचन्द्रा-ऽऽदित्योड्योतेन कालविभागमजानती मृगापतिनाम्नी साध्वी स्थिता ततस्तद्गमनेऽतिकालोऽयमिति सम्भ्रान्ता सह साध्वीभिरार्यचन्दनासमीपं गता, तया चोपालब्धा अयुक्तमिदं भवादृशीनामुत्तमकुलजातानामिति ।। तथा पृच्छा प्रश्नः किं कथं केन कृतमित्यादि, सा यत्र विधेयतयोपदिश्यते सा पृच्छा, यथा प्रच्छनीया ज्ञानिनो निर्णयार्थिभिर्यथा भगवान् कोणिकेन पृष्टः, तथाहि20 किल कोणिकः श्रेणिकराजपुत्र: श्रमणं भगवन्तं महावीरं पप्रच्छ, तद्यथा-भदन्त ! चक्रवर्तिनोऽपरित्यक्तकामा मृता: क्वोत्पद्यन्ते ?, भगवताऽभिहितम्– सप्तमनरकपृथिव्याम्, ततोऽसौ बभाण- अहं क्वोत्पत्स्ये ?, स्वामिनोक्तम्- षष्ठ्याम्, स उवाच- अहं किं न सप्तम्याम् ? स्वामिना जगदे– सप्तम्यां चक्रवर्त्तिनो यान्ति, ततोऽसावभिदधौ– किमहं न चक्रवर्ती ?, यतो ममापि हस्त्यादिकं तत्समानमस्ति, स्वामिना प्रत्यूचे- तव रत्न१. वृत्त्य जे१ खं० ॥ २. सर्वेषु हस्तलिखितादर्शेषु मृगापति' इत्येव पाठः ॥ ३. मने अति जे१ । 'मनेति पा० जे२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy