________________
[सू० ३३५]
चतुर्थमध्ययनं चतुः स्थानकम् । तृतीय उद्देशकः ।
उत्तररूपमुपपत्तिमात्रमपि ज्ञातभेदो ज्ञानहेतुत्वादिति यथा अकर्त्ताऽऽत्मा अमूर्त्तत्वादाकाशवदित्युक्ते अन्य आह- आकाशवदेवाऽभोक्तेत्यपि प्राप्तमनिष्टं चैतदिति । यथा वा मांसभक्षणमदुष्टं प्राण्यङ्गत्वादोदनादिवत्, अत्राऽऽहाऽन्यः - ओदनादिवदेव श्वस्वपुत्रादिमांसभक्षणमप्यदुष्टमिति, यथा वा त्यक्तसङ्गा वस्त्र - पात्रादिसङ्ग्रहं न कुर्वन्ति ऋषभादिवत्, अत्राह- कुण्डिकाद्यपि ते न गृह्णन्ति तद्वदेवेति । तथा ' कस्मात् कर्म 5 कुरुषे ? यस्माद् धनार्थी'ति । इह प्रथमं ज्ञातं समग्रसाधर्म्यं द्वितीयं देशसाधर्म्यं तृतीयं सदोषं चतुर्थं प्रतिवाद्युत्तररूपमित्ययमेषां स्वरूपविभाग इति । इह देशत: संवादगाथाचरियं च कप्पियं वा दुविहं तत्तो चउव्विक्वेक्कं ।
Jain Education International
,
आहरणे तसे तोसे चेवुवन्नासे ॥ [ दशवै० नि० ५३] इति ।
अवायेत्ति अपायः अनर्थ:, स यत्र द्रव्यादिष्वभिधीयते यथैतेषु 10 द्रव्यादिविशेषेष्वस्त्यपायो विवक्षितद्रव्यादिविशेषेष्विव, हेयता वाऽस्य यत्राभिधीयते तदाहरणमपाय इति, स च चतुर्धा द्रव्यादिभिः ।
तत्र द्रव्यात् द्रव्ये वाऽपायो द्रव्यमेव वा तत्कारणत्वादपायो द्रव्यापायः, एतद्धेयतासाधकं एतत्साधकं वाऽऽहरणमपि तथोच्यते, तत्प्रयोगः- द्रव्यापायः परिहार्यस्तत्र वाऽपायो वर्त्तते, देशान्तरगमनोपार्जितद्रविणयोस्तल्लोभात् 15 परस्परमारणपरिणतयोः स्वग्रामाद् बहिः प्राप्तावनुतापात् हृदत्यक्तमत्स्यगिलिततद्वित्तयोर्मत्स्यबन्धकपार्श्वात् गृहीतस्य तस्य मत्स्यस्य विदारणेऽवाप्ततद्द्रव्यलुब्धभगिन्या मत्स्यच्छेदकशस्त्राभिघातेन तदुद्दालनप्रवृत्तमारितमातृकयोस्तथाविधव्यतिकरदर्शनोत्पन्नसंवेगात् प्रतिपन्नप्रव्रज्ययोर्भ्रातृवणिजोरिव, तत्परिहारश्च प्रव्रज्यया तत्त्यागादिति, आहरणता चास्य देशेनोपनयस्याविवक्षणादिति ।
तथा क्षेत्रात् क्षेत्रे वा क्षेत्रमेव वाऽपाय: क्षेत्रापायः, शेषं तथैव, एवमुत्तरत्रापि, तत्प्रयोगः- अपायवत् क्षेत्रं वर्जयेत् जरासन्धाभिधानप्रतिवासुदेवात् सम्भावितापायां मथुरानगरीं यथा दशार्हचक्रं वर्जयामासेति, अथवा सम्भवत्यपायः सप्रत्यनीकक्षेत्रे ससर्पगृहवत् ।
१. गादीति खं० ॥
For Private & Personal Use Only
४३५
20
www.jainelibrary.org