SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ ४३४ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे . अथवोपमानमात्रं ज्ञातं सुकुमार: कर: किशलयमिवेत्यादिवत्, अथवा ज्ञातम् उपपत्तिमात्रं ज्ञानहेतुत्वात्, ‘कस्माद्यवा: क्रीयन्ते ? यस्मान्मुधा न लभ्यन्ते' इत्यादिवदिति, एवमनेकधा साध्यप्रत्यायनस्वरूपं ज्ञातमुपाधिभेदात् चतुर्विधं दर्शयति, तत्र आ अभिविधिना ह्रियते प्रतीतौ नीयते अप्रतीतोऽर्थोऽनेनेत्याहरणम्, यत्र समुदित एव 5 दार्टान्तिकोऽर्थः उपनीयते यथा पापं दु:खाय ब्रह्मदत्तस्येवेति । तथा तस्य आहरणार्थस्य देशस्तद्देशः स चासावुपचारादाहरणं चेति प्राकृतत्वादाहरणशब्दस्य पूर्वनिपाते आहरणतद्देश इति, भावार्थश्चात्र- यत्र दृष्टान्तार्थदेशेनैव दार्टान्तिकार्थस्योपनयनं क्रियते तत्तद्देशोदाहरणमिति, यथा चन्द्र इव मुखमस्या इति, इह हि चन्द्रे सौम्यत्वलक्षणेनैव देशेन मुखस्योपनयनं नानिष्टेन नयन10 नासावर्जितत्व-कलङ्कादिनेति । ___ तथा तस्यैव आहरणस्य सम्बन्धी साक्षात् प्रसङ्गसम्पन्नो वा दोषस्तद्दोषः, स चासौ धर्मे धर्मिण: उपाचारादाहरणं चेति प्राकृतत्वेन पूर्वनिपातादाहरणतद्दोष इति, अथवा तस्य आहरणस्य दोषो यस्मिंस्तत्तथा, शेषं तथैव, अयमत्र भावार्थ:-यत् साध्यविकलत्वादिदोषदुष्टं तत् तद्दोषाहरणम्, यथा 'नित्यः शब्दोऽमूर्त्तत्वात्, घटवत्', 15 इह साध्यसाधनवैकल्यं नाम दृष्टान्तदोषः, यच्चासभ्यादिवचनरूपं तदपि तद्दोषाहरणम्, यथा सर्वथाऽहमसत्यं परिहरामि गुरुमस्तककर्त्तनवदिति, यद्वा साध्यसिद्धिं कुर्वदपि दोषान्तरमुपनयति तदपि तदेव, यथा सत्यं धर्ममिच्छन्ति लौकिकमुनयोऽपि... वरं कूपशताद्वापी वरं वापीशतात् क्रतुः ।। वरं क्रतुशतात् पुत्रः सत्यं पुत्रशताद्वरम् ॥ [नारद० १।२१२] इति वचनवक्तृनारदवदिति, 20 अनेन च श्रोतुः पुत्र-क्रतुप्रभृतिषु प्राय: संसारकारणेषु धर्मप्रतीतिराहितेति आहरणतद्दोषतेति, यथा वा 'बुद्धिमता केनापि कृतमिदं जगत्, सन्निवेशविशेषवत्त्वात्, घटवत्, स चेश्वरः' इति, अनेन हि स बुद्धिमान् कुम्भकारतुल्योऽनीश्वरः सिध्यतीति, ईश्वरश्च स विवक्षित इति। ___ तथा वादिना अभिमतार्थसाधनाय कृते वस्तूपन्यासे तद्विघटनाय य: प्रतिवादिना 25 विरुद्धार्थोपनय: क्रियते पर्यनुयोगोपन्यासे वा य उत्तरोपनय: स उपन्यासोपनयः, १. "अश्वमेधसहस्रं च सत्यं च तुलया धृतम् । अश्वमेधसहस्रात्तु सत्यमेव विशिष्यते ॥१।२११॥ वरं कूपशताद् वापी.... ॥१॥२१२॥” इति नारदस्मृतौ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy