SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ [सू० ३३५] चतुर्थमध्ययनं चतुःस्थानकम् । तृतीय उद्देशकः । ४३३ तजनितगत्युपष्टम्भाभावात् गन्त्र्यादिरहितपङ्गुवत्, तथा रूक्षतया सिकतामुष्टिवत्, लोकान्तेषु हि पुद्गला रूक्षतया तथा परिणमन्ति यथा परतो गमनाय नालम्, कर्मपुद्गलानां तथाभावे जीवा अपि, सिद्धास्तु निरुपग्रहतयैवेति, लोकानुभावेन लोकमर्यादया विषयक्षेत्रादन्यत्र मार्तण्डमण्डलवदिति । [सू० ३३५] चउव्विहे गाते पन्नत्ते, तंजहा-आहरणे, आहरणतद्देसे, 5 आहरणतद्दोसे, उवन्नासोवणते १ । आहरणे चउव्विहे पन्नत्ते, तंजहा-अवाते, उवाते, ठवणाकम्मे, पडुप्पन्नविणासी, २ । आहरणतद्देसे चउव्विहे पन्नत्ते, तंजहा-अणुसिट्ठी, उवालंभे, पुच्छा, निस्सावयणे ३ । आहरणतदोसे चउव्विहे पन्नत्ते, तंजहा-अधम्मजुत्ते, पडिलोमे, अंतोवणीते, दुरोवणीते ४ । उवन्नासोवणए चउब्विहे पन्नत्ते, तंजहा-तव्वत्थुते, तदन्नवत्थुते, पडिणिभे, हेतू ५ । [टी०] अनन्तरोक्ता अर्था उक्तवन्निदर्शनत: प्राय: प्राणिनां प्रतीतिपथपातिनो भवन्तीति 15 निदर्शनभेदप्रतिपादनाय पञ्चसूत्री । तत्र ज्ञायते अस्मिन् सति दार्टान्तिकोऽर्थ इति अधिकरणे क्तप्रत्ययोपादानात् ज्ञातं दृष्टान्तः, साधनसद्भावे साध्यस्यावश्यंभाव: साध्याभावे वा साधनस्यावश्यमभाव इत्युपदर्शनलक्षणः, यदाह साध्येनानुगमो हेतो: साध्याभावे च नास्तिता। ख्याप्यते यत्र दृष्टान्त: स साधर्म्यतरो द्विधा ॥ [प्रमाणसमु० ४।२] इति ।। तत्र साधर्म्यदृष्टान्तोऽग्निरत्र धूमाद्यथा महानसे इति, वैधर्म्यदृष्टान्तस्तु अग्न्यभावे धूमो न भवति यथा जलाशये इति । अथवा आख्यानकरूपं ज्ञातम्, तच्च चरित-कल्पितभेदात् द्विधा, तत्र चरितं यथा निदानं दु:खाय ब्रह्मदत्तस्येव, कल्पितं यथा प्रमादवतामनित्यं यौवनादीति देशनीयम्, यथा पाण्डुपत्रेण किशलयानां देशितम्, तथाहि जह तुब्भे तह अम्हे तुब्भे वि य होहिहा जहा अम्हे । अप्पाहेइ पडतं पंडुयपत्तं किसलयाणं ॥ [उत्तरा० नि० ३०७] इति । 20 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy