SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ [सू० ३३३-३३१] चतुर्थमध्ययनं चतुःस्थानकम् । तृतीय उद्देशकः । ४२९ आउ [काइया], वणस्सति [काइया], उराला तसा पाणा । अहेलोगे णं चत्तारि बिसरीरा पन्नत्ता, तंजहा-एवं चेव । एवं तिरियलोए वि ४ । चत्तारि पुरिसजाता पन्नत्ता, तंजहा-हिरिसत्ते, हिरिमणसत्ते, चलसत्ते, थिरसत्ते। चत्तारि सेज्जपडिमाओ पन्नत्ताओ १। चत्तारि वत्थपडिमाओ पन्नत्ताओ २॥ चत्तारि पातपडिमाओ पन्नत्ताओ ३॥ चत्तारि ठाणपडिमाओ पन्नत्ताओ ४। 5 [टी०] ईषत्प्राग्भारा ऊर्ध्वलोके भवतीति ऊर्ध्वलोकप्रस्तावादिदमाह- उड्ढेत्यादि, द्वे शरीरे येषां ते द्विशरीराः, एकं पृथिवीकायिकादिशरीरमेव द्वितीयं जन्मान्तरभावि मनुष्यशरीरं ततस्तृतीयं केषाञ्चिन्न भवत्यनन्तरमेव सिद्धिगमनात् । ओराला तस त्ति उदारा: स्थूला द्वीन्द्रियादयो न तु सूक्ष्मास्तेजोवायुलक्षणा:, तेषामनन्तरभवे मानुषत्वाप्राप्त्या सिद्धिर्न भवतीति शरीरान्तरसम्भवात् । तथोदारत्रसग्रहणेन 10 द्वीन्द्रियादिप्रतिपादनेऽपीह द्विशरीरतया पञ्चेन्द्रिया एव ग्राह्या:, विकलेन्द्रियाणामनन्तरभवे सिद्धेरभावाद्, उक्तं च- विगला लभेज विरइं ण हु किंचि लभेज सुहुमतसा [बृहत्सं० २९७] इति। लोकसम्बन्धायाते अधोलोक-तिर्यग्लोकयोरतिदेशसूत्रे गतार्थे इति । तिर्यग्लोकाधिकारात् तदुद्भवं संयतादिपुरुषं भेदैराह- चत्तारीत्यादि, ह्रिया लज्जया सत्त्वं परीषहादिसहने रणाङ्गणे वा अवष्टम्भो यस्य स ह्रीसत्त्वः । तथा ह्रिया हसिष्यन्ति 15 मामुत्तमकुलजातं जना इति लज्जया मनस्येव, न काये रोमहर्ष-कम्पादिभयलिङ्गोपदर्शनात्, सत्त्वं यस्य स ह्रीमनःसत्त्वः । चलम् अस्थिरं परीषहादिसम्पाते ध्वंसात् सत्त्वं यस्य स चलसत्त्व: । एतद्विपर्ययात् स्थिरसत्त्व इति। स्थिरसत्त्वोऽनन्तरमुक्तः, स चाभिग्रहान् प्रतिपद्य पालयतीति दर्शनाय सूत्रचतुष्टयमिदम्चत्तारि सिज्जेत्यादि सुगमम्, नवरं शय्यते यस्यां सा शय्या संस्तारकः, तस्या: प्रतिमा 20 अभिग्रहा: शय्याप्रतिमाः, तत्रोद्दिष्ट फलकादीनामन्यतमत् ग्रहीष्यामि नेतरदित्येका, यदेव प्रागुद्दिष्टं तदेव यदि द्रक्ष्यामि तदा तदेव ग्रहीष्यामि नान्यदिति द्वितीया, तदपि यदि तस्यैव शय्यातरस्य गृहे भवति ततो ग्रहीष्यामि नान्यत आनीय तत्र शयिष्य इति तृतीया, तदपि फलकादिकं यदि यथासंस्तृतमेवास्ते ततो ग्रहीष्यामि नान्यथेति चतुर्थी, १. तदर्श जे२ । तदर्श पामू०, तद्दर्श पासं० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy