________________
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे
सीहत्ताते विहरइ, सीहत्ताते नाममेगे निक्खंते सियालत्ताए विहरड़, सियालत्ताए नाममेगे निक्खते सीहत्ताए विहरड़, सियालत्ताए नाममेगे निक्खते सियालत्ताए विहरs |
[टी०] सिंहतया ऊर्जवृत्त्या निष्क्रान्तो गृहवासात् तथैव च विहरति उद्यतविहारेणेति । 5 शृगालतया दीनवृत्त्येति ।
10
४२८
[सू० ३३०] चत्तारि लोगे समा पन्नत्ता, तंजहा - अप्पतिट्ठाणे नरए, जंबूदी दीवे, पालते जाणविमाणे, सव्वट्ठसिद्धे महाविमाणे १ ।
चत्तारि लोगे समा सपक्खिं सपडिदिसिं पन्नत्ता, तंजहा - सीमंतए नरए, समयक्खेत्ते, उडुविमाणे, ईसीपब्भारा पुढवी २ ।
[टी०] पूर्वं पुरुषाणामश्वादिभिर्जात्यादिगुणेन समतोक्ता, अधुना अप्रतिष्ठानादीनां तामेव प्रमाणत आह— चत्तारीत्यादि सूत्रद्वयं प्रायो व्याख्यातार्थं तथाप्युच्यते, अप्रतिष्ठानो नरकावासः सप्तम्यां नरकपृथिव्यां पञ्चानां कालादीनां नरकावासानां मध्यवर्त्ती सच योजनलक्षम् | पालकं पालकदेवनिर्मितं सौधर्मेन्द्रसम्बन्धि यानञ्च तद्विमानञ्च यानाय वा गमनाय विमानं यानविमानम्, न तु शाश्वतमिति । सर्वार्थ सिद्धं 15 पञ्चानामनुत्तरविमानानां मध्यममिति
25
चत्वारो लोके समा भवन्ति, कथमित्याह -- सपक्खिं सपडिदिसिं ति समाना: पक्षाः पार्श्वा दिशो यस्मिन् तत् सपक्षम्, इहेकार: प्राकृतत्वेन, तथा समाना: प्रतिदिशो विदिशो यस्मिंस्तत् सप्रतिदिक्, तद् यथा भवत्येवं समा भवन्तीति, सदृशाः पक्षैरिति सपक्षमित्यव्ययीभावो वेति, पृथु - सङ्कीर्णयोर्हि द्रव्ययोरधउपरिविभागेन 20 स्थितयोस्तुल्यमानयोर्वा विषमताव्यवस्थितयोर्न समा दिशो विदिशश्च भवन्तीत्यत्यन्तसमताख्यापनार्थमिदं विशेषणद्वयमिति । सीमन्तकः प्रथमपृथिव्यां प्रथमप्रस्तटे पञ्चचत्वारिंशद्योजनलक्षप्रमाण इति । समयः कालस्तदुपलक्षितं क्षेत्र समयक्षेत्रं मनुष्यक्षेत्रमित्यर्थः । उडुविमानं सौधर्मे प्रथमप्रस्तट एवेति । ईषद् अल्पो रत्नप्रभाद्यपेक्षया प्राग्भारः उच्छ्रयादिलक्षणो यस्यां सेषत्प्राग्भारा ।
[सू० ३३१] उड्डलोगे णं चत्तारि बिसरीरा पन्नत्ता, तंजहा - पुढविकाइया,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org