SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ ४३० आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे आसु च प्रतिमास्वाद्ययोः प्रतिमयोर्गच्छनिर्गतानामग्रहः, उत्तरयोरन्यतरस्यामभिग्रहः, गच्छान्तर्गतानां तु चतस्रोऽपि कल्पन्त इति । वस्त्रप्रतिमा वस्त्रग्रहणविषये प्रतिज्ञाः, कार्पासिकादीत्येवमुद्दिष्टं वस्त्रं याचिष्ये इति प्रथमा, तथा प्रेक्षितं वस्त्रं याचिष्ये नापरमिति द्वितीया, तथाऽऽन्तरपरिभोगेनोत्तरीयपरिभोगेन 5 वा शय्यातरेण परिभुक्तप्रायं वस्त्रं ग्रहीष्यामीति तृतीया, तथा तदेवोत्सृष्टधर्मकं ग्रहीष्यामीति चतुर्थी। पात्रप्रतिमा उद्दिष्टं दारुपात्रादि याचिष्ये १, तथा प्रेक्षितम् २, तथा दातुः स्वाङ्गिकं परिभुक्तप्रायं द्वि-त्रेषु वा पात्रेषु पर्यायेण परिभुज्यमानं पात्रं याचिष्य इति तृतीया, उज्झितधर्मकमिति चतुर्थी। 10 स्थानं कायोत्सर्गाद्यर्थ आश्रयः, तत्र प्रतिमा: स्थानप्रतिमाः, तत्र कस्यचिद् भिक्षोरेवंभूतोऽभिग्रहो भवति यथा-अहमचित्तं स्थानमुपाश्रयिष्यामि तत्र चाऽऽकुञ्चनप्रसारणादिकां क्रियां करिष्ये, तथा किञ्चिदचित्तं कुड्यादिकमवलम्बयिष्ये, तथा तत्रैव स्तोकपादविहरणं समाश्रयिष्यामीति प्रथमा प्रतिमा, द्वितीया त्वाकु ञ्चन प्रसारणादिक्रियामवलम्बनं च करिष्ये न पादविहरणमिति, तृतीया त्वाकुञ्चन-प्रसारणमेव 15 नावलम्बन-पादविहरणे इति, चतुर्थी पुनर्यत्र त्रयमपि न विधत्ते । [सू० ३३२] चत्तारि सरीरगा जीवफुडा पन्नत्ता, तंजहा-वेउव्विए, आहारए, तेयए, कम्मए १॥ चत्तारि सरीरगा कम्मुम्मीसगा पन्नत्ता, तंजहा-ओरालिए, वेउव्विए, आहारए, तेयए २॥ [टी०] अनन्तरं शरीरचेष्टानिरोध उक्त इति शरीरप्रस्तावादिदं सूत्रद्वयं चत्तारीत्यादि 20 व्यक्तम्, किन्तु जीवेन स्पृष्टानि व्याप्तानि जीवस्पृष्टानि, जीवेन हि स्पृष्टान्येव वैक्रियादीनि भवन्ति, न तु यथा औदारिकं जीवमुक्तमपि भवति मृतावस्थायां तथैतानीति, कम्मुम्मीसग त्ति कार्मणेन शरीरेणोन्मिश्रकाणि न केवलानि, यथौदारिकादीनि त्रीणि वैक्रियादिभिरमिश्राण्यपि भवन्ति नैवं कार्मणेनेति भावः । [सू० ३३३] चउहिं अत्थिकाएहिं लोगे फुडे पन्नत्ते, तंजहा-धम्मत्थिकाएणं, 25 अधम्मत्थिकाएणं, जीवत्थिकाएणं, पोग्गलत्थिकाएणं । चउहिं बादरकातेहिं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy