SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ [सू० ३२७] चतुर्थमध्ययनं चतुः स्थानकम् । तृतीय उद्देशकः । एवमितरावपि, इहापि त एव पूर्वसूत्रोक्ताः पुरुषविशेषाः प्ररञ्जनविशेषिता: द्रष्टव्याः । अथवा तमस्तथैवाप्रसिद्धो वा तमोबलेन अन्धकारबलेन सञ्चरन् प्रलज्जते इति तमोबलप्रलज्जनः प्रकाशचारी, एवमितरेऽपि, नवरं द्वितीयोऽन्धकारचारी, तृतीयः प्रकाशचारी, चतुर्थः कुतोऽपि कारणादन्धकारचार्येवेति । पज्जलणे त्ति क्वचित्पाठः, तत्राज्ञानबलेनान्धकारबलेन वा ज्ञानबलेन प्रकाशबलेन वा प्रज्वलति दर्पितो 5 भवत्यवष्टम्भं करोति यः स तथेति । परिज्ञातानि ज्ञपरिज्ञया स्वरूपतोऽवगतानि प्रत्याख्यानपरिज्ञया च परिहृतानि कर्माणि कृष्यादीनि येन स परिज्ञातकर्मा, नो न च परिज्ञाता: संज्ञा आहारसंज्ञाद्या येन स परिज्ञातसंज्ञः, अभावितावस्थः प्रव्रजितः श्रावको वेत्येकः । परिज्ञातसंज्ञः सद्भावनाभावितत्वात्, न परिज्ञातकर्म्मा कृष्याद्यनिवृत्तेः श्रावक इति द्वितीयः । तृतीयः साधुश्चतुर्थोऽसंयत इति । परिज्ञातकर्मा सावद्यकरण- 10 कारणा-ऽनुमतिनिवृत्तः कृष्यादिनिवृत्तो वा न परिज्ञातगृहावासोऽप्रव्रजित इत्येकः । अन्यस्तु परिज्ञातगृहावासो न त्यक्तारम्भो दुष्प्रव्रजित इति द्वितीयः । तृतीयः साधुश्चतुर्थोऽसंयतः । त्यक्तसंज्ञो विशिष्टगुणस्थानकत्वादत्यक्तगृहावासो गृहस्थत्वादेकः १, अन्यस्तु परिहृतगृहावासो यतित्वादभावितत्वान्न परिहृतसंज्ञः २, अन्य उभयथा ३, अन्यो 15 नोभयथेति । इहैव जन्मन्यर्थः प्रयोजनं भोगसुखादि आस्था वा इदमेव साध्विति बुद्धिर्यस्य स इहार्थ इहास्थो वा भोगपुरुष इहलोकप्रतिबद्धो वा १, परत्रैव जन्मान्तरे अर्थ आस्था वा यस्य स परार्थः परास्थो वा साधुर्बालतपस्वी वा २, इह च परत्र च यस्यार्थ आस्था वा स सुश्रावक उभयप्रतिबद्धो वा ३, उभयप्रतिषेधवान् सौकरिकादिर्मूढो वेति ४। 20 अथवा इहैव विवक्षिते ग्रामादौ तिष्ठतीति इहस्थस्तत्प्रतिबन्धान्न परस्थः १, अन्यस्तु परत्र प्रतिबन्धात् परस्थः २, अन्यस्तूभयस्थः ३, अन्यः सर्वाप्रतिबद्धत्वादनुभयस्थः साधुरिति ४। एकेनेति श्रुतेन एकः कश्चिद्वर्द्धते, एकेनेति सम्यग्दर्शनेन हीयते, यथोक्तम् १. इहैव च जन्म १ ॥ -A-12 Jain Education International ४२५ For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy