________________
४२४
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे स्वार्थकरत्वाद्विधिवत् सिद्धान्तदेशनातश्च परार्थसम्पादकत्वात् । चतुर्थे तूभयानुपकारी, स च मुग्धमति: कश्चिद् यथाच्छन्दो वेति । एवं लौकिकपुरुषोऽपि योजनीय: ।
उभयानुपकारी च दुर्गत एव स्यादिति दुर्गतसूत्रम्, दुर्गतो दरिद्रः, पूर्वं धनविहीनत्वात् ज्ञानादिरत्नविहीनत्वाद्वा पश्चादपि तथैव दुर्गत एवेति, अथवा दुर्गतो द्रव्यत: पुनर्दुगतो 5 भावत इति प्रथम:, एवमन्ये त्रयः, नवरं सुगतो द्रव्यतो धनी भावतो ज्ञानादिगुणवानिति।
दुर्गत: कोऽपि व्रती स्यादिति दुव्रतसूत्रम्, दुर्गतो दरिद्रः, दुव्रत: असम्यग्वतोऽथवा दुर्व्यय: आयानपेक्षव्यय: कुस्थानव्ययो वेत्येकः, अन्यो दुर्गतः सन् सुव्रतो निरतिचारनियम:, सुव्ययो वौचित्यप्रवृत्तेरिति, इतरौ प्रतीतौ। दुर्गतस्तथैव, दुष्प्रत्यानन्दः
उपकृतेन कृतमुपकारं यो नाभिमन्यते, यस्तु मन्यते तं स सुप्रत्यानन्द इति । 10 दुर्गतो दरिद्रः सन् दुर्गतिं गमिष्यतीति दुर्गतिगामीत्येवमन्येऽपि, नवरं सुगति
गमिष्यतीति सुगतिगामी । सुगत: ईश्वर इति । दुर्गतस्तथैव, दुर्गतिं गतः यात्राजनकुपिततन्मारणप्रवृत्तद्रमकवत्, एवमन्ये त्रयः ।
तम इव तम: पूर्वमज्ञानरूपत्वादप्रकाशत्वाद्वा पश्चादपि तम एवेत्येकः, अन्यस्तु तमः पूर्वम्, पश्चाज्ज्योतिरिव ज्योतिरुपार्जितज्ञानत्वात् प्रसिद्धिप्राप्तत्वाद्वा, शेषौ सुज्ञानौ। 15 तम: कुकर्मकारितया मलिनस्वभावः, तम: अज्ञानं बलं सामर्थ्य यस्य, तम: अन्धकारं
वा तदेव तत्र वा बलं यस्य स तथा, असदाचारवानज्ञानी रात्रिचरो वा चौरादिरित्येकः। तथा तमस्तथैव, ज्योति: ज्ञानं बलं यस्य, आदित्यादिप्रकाशो वा ज्योतिस्तदेव तत्र वा बलं यस्य स तथा, अयं चासदाचारो ज्ञानवान् दिनचारी वा चौरादिरिति द्वितीयः।
ज्योति: सत्कर्मकारितयोज्ज्वलस्वभावः, तमोबलस्तथैव, अयं च सदाचारवान् 20 [अ?]ज्ञानी कारणान्तराद्वा रात्रिचर इति तृतीयः । चतुर्थः सुज्ञान:, अयं च सदाचारवान्
ज्ञानी दिनचरो वेति । ___ तथा तमस्तथैव, तमबलपलज्जणे त्ति तमो मिथ्याज्ञानम् अन्धकारं वा तदेव बलं तत्र, अथवा तमसि उक्तरूपे बले च सामर्थ्य प्ररज्यते रतिं करोतीति तमोबलप्ररञ्जन:, एवं ज्योतिर्बलप्ररञ्जनोऽपि, नवरं ज्योतिः सम्यग्ज्ञानमादित्यादिप्रकाशो वेति,
१. 'अयं च सदाचारवान् अज्ञानी, ज्ञानी कारणान्तराद्वा रात्रिचरः' इत्यपि पाठोऽत्र संभवेत् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org