SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ ४१४ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे विमाणे चत्तारि पलिओवमाइं ठिती पन्नत्ता । - [टी०] अम्मापिइसमाणे मातापितृसमान:, उपचारं विनापि साधुषु एकान्तेनैव वत्सलत्वात् । भ्रातृसमान: अल्पतरप्रेमत्वात् तत्त्वविचारादौ निष्ठरवचनादप्रीते: तथाविधप्रयोजने त्वत्यन्तवत्सलत्वाच्चेति । मित्रसमान: सोपचारवचनादिना विना 5 प्रीतिक्षते:, तत्क्षतौ चाऽऽपद्यप्युपेक्षकत्वादिति । समान: साधारण: पतिरस्या: सपत्नी, यथा सा सपत्न्या ईर्ष्यावशादपराधान् वीक्षते एवं य: साधुषु दूषणदर्शनतत्परोऽनुपकारी च स सपत्नीसमानोऽभिधीयत इति ।। __ अद्दाग त्ति आदर्शसमानो यो हि साधुभि: प्रज्ञाप्यमानानुत्सर्गापवादादीनागमिकान् भावान् यथावत् प्रतिपद्यते सन्निहितार्थानादर्शकवत् स आदर्शसमानः । यस्यानवस्थितो 10 बोधो विचित्रदेशनावायुना सर्वतोऽपह्रियमाणत्वात् पताकेव स पताकासमान इति । यस्तु कुतोऽपि कदाग्रहान्न गीतार्थदेशनया चाल्यते सोऽनमनस्वभावबोधत्वेनाऽप्रज्ञापनीयः स्थाणुसमान इति । यस्तु प्रज्ञाप्यमानो न केवलं स्वाग्रहान्न चलति अपि तु प्रज्ञापकं दुर्वचनकण्टकैर्विध्यति स खरकण्टकसमान:, खरा निरन्तरा निष्ठुरा वा कण्टा: कण्टका यस्मिंस्तत् खरकण्टं बब्बूलादिडालं खरणमिति लोके यदुच्यते तच्च विलग्नं 15 चीवरं न केवलमविनाशितं न मुञ्चत्यपि तु तद्विमोचकं पुरुषादिं हस्तादिषु कण्टकैः विध्यतीति, अथवा खरण्टयति लेपवन्तं करोति यत् तत् खरण्टम् अशुच्यादि, तत्समानः, यो हि कुबोधापनयनप्रवृत्तं संसर्गमात्रादेव दूषणवन्तं करोति कुबोधकुशीलतादुष्प्रसिद्धिजनकत्वेनोत्सूत्रप्ररूपकोऽयमित्यसद्दूषणोद्भावकत्वेन वेति । __ श्रमणोपासकाधिकारादिदमाह- समणस्सेत्यादि कण्ठ्यम्, नवरं श्रमणोपासकाना20 मानन्दादीनामुपासकदशाभिहितानामिति । [सू० ३२३] चउहिं ठाणेहिं अहुणोववन्ने देवे देवलोगेसु इच्छेज्जा माणुसं लोगं हव्वमागच्छित्तते, णो चेव णं संचातेति हव्वमागच्छित्तते, तंजहाअहुणोववन्ने देवे देवलोगेसु दिव्वेसु कामभोगेसु मुच्छिते गिद्धे गढिते अज्झोववन्ने, से णं माणुस्सए कामभोगे णो आढाति णो परियाणाति णो 25 अटुं बंधइ णो णिताणं पगरेति णो ठितिपगप्पं पगरेति १ । अहुणोववन्ने Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy