________________
४१३
[सू० ३२२] चतुर्थमध्ययनं चतुःस्थानकम् । तृतीय उद्देशकः ।
[टी०] आचार्यसूत्रचतुर्थभङ्गे यो न प्रव्राजनया न चोत्थापनयाचार्य: स क इत्याहधर्माचार्य इति, प्रतिबोधक इत्यर्थः, आह च
धम्मो जेणुवइट्ठो सो धम्मगुरू गिही व समणो वा । को वि तिहिं संपउत्तो दोहि वि एक्केक्कगेणेव ॥ [ ] इति, त्रिभिरिति प्रव्राजनोत्थापनाधर्माचार्यत्वैरिति ।। उद्देशनम् अङ्गादेः पठनेऽधिकारित्वकरणम्, तत्र तेन वाऽऽचार्यो गुरु: उद्देशनाचार्य:, उभयशून्य: को भवतीत्याह-धर्माचार्य इति । ___ अन्ते गुरो: समीपे वस्तुं शीलमस्यान्तेवासी शिष्य:, प्रव्राजनया दीक्षया अन्तेवासी प्रव्राजनान्तेवासी, दीक्षित इत्यर्थः, उत्थापनान्तेवासी महाव्रतारोपणत: शिष्य इति. चतुर्थभङ्गकस्थः क इत्याह-धर्मान्तेवासी धर्मप्रतिबोधनतः शिष्यः, 10 धम्मार्थितयोपसम्पन्नो वेत्यर्थः, यो नोद्देशनान्तेवासी न वाचनान्तेवासीति चतुर्थः, स क इत्याह-धर्मान्तेवासीति ।
निर्गता बाह्याभ्यन्तरग्रन्थान्निर्ग्रन्थाः साधवः, रत्नानि भावतो ज्ञानादीनि, तैर्व्यहरतीति रात्निकः, पर्यायज्येष्ठ इत्यर्थः, श्रमणो निर्ग्रन्थः । महान्ति गुरूणि स्थित्यादिभिस्तथाविधप्रमादाद्यभिव्यङ्ग्यानि कर्माणि यस्य स महाका, महती 15 क्रिया कायिक्यादिका कर्मबन्धहेतुर्यस्य स महाक्रियः, न आतापयति आतापनां शीतादिसहनरूपां करोतीत्यनातापी मन्दश्रद्धत्वादिति, अत एवाऽसमित: समितिभिः, स चैवंभूतो धर्मस्यानाराधको भवतीत्येकः, अन्यस्तु पर्यायज्येष्ठ एवाल्पकर्मा लघुका अल्पक्रिय इति द्वितीयः, अन्यस्तु अवमो लघु: पर्यायेण रात्निको अवमरात्निकः । एवं निर्ग्रन्थिका-श्रमणोपासक-श्रमणोपासिकासूत्राणि । चत्तारि गम 20 त्ति त्रिष्वपि सूत्रेषु चत्वार आलापका भवन्तीति ।
[सू० ३२२] चत्तारि समणोवासगा पन्नत्ता, तंजहा-अम्मापितिसमाणे, भातिसमाणे, मित्तसमाणे, सवत्तिसमाणे ।
चत्तारि समणोवासगा पन्नत्ता, तंजहा-अद्दागसमाणे, पडागसमाणे, खाणुसमाणे, खरकटयसमाणे ।
25 समणस्स णं भगवतो महावीरस्स समणोवासगाणं सोधम्मे कप्पे अरुणाभे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org