SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ ४१० आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे मृद्वीका द्राक्षा तद्वत् सैव वा मधुरं मृद्वीकामधुरम्, क्षीरवत् खण्डवच्च मधुरमिति विग्रहः, यथैतानि क्रमेणेषद्-बहु-बहुतर-बहुतममाधुर्यवन्ति तथा ये आचार्या ईषद्बहु-बहुतर-बहुतमोपशमादिगुणलक्षणमाधुर्यवन्तस्ते तत्समानतया व्यपदिश्यन्त इति । __ आत्मवैयावृत्यकरोऽलसो विसम्भोगिको वा, परवैयावृत्यकरः स्वार्थनिरपेक्ष:, स्व5 परवैयावृत्यकर: स्थविरकल्पिक: कोऽपि, उभयनिवृत्तोऽनशनविशेषप्रतिपन्नकादिरिति। करोत्येवैको वैयावृत्यं नि:स्पृहत्वात् १, प्रतीच्छत्येवान्य आचार्यत्व-ग्लानत्वादिना २, अन्य: करोति प्रतीच्छति च स्थविरविशेष: ३, उभयनिवृत्तस्तु जिनकल्पिकादिरिति ४। अट्ठकरे त्ति अर्थान् हिताहितप्राप्तिपरिहारादीन् राजादीनां दिग्यात्रादौ तथोपदेशत: करोतीत्यर्थकरः मन्त्री नैमित्तिको वा, स चार्थकरो नामैको न मानकरः, 10 कथमहमनभ्यर्थितः कथयिष्यामीत्यवलेपवर्जितः, एवमितरे त्रयः, अत्र च व्यवहारभाष्यगाथा पुट्ठापुट्ठो पढमो जत्ताइ हियाहियं परिकहेइ । तइओ पुट्ठो सेसा उ णिप्फला एव गच्छे वि ॥ [व्यवहारभा० ४५६८] इति । गणस्य साधुसमुदायस्याऽर्थान् प्रयोजनानि करोतीति गणार्थकरः 15 आहारादिभिरुपष्टम्भकः, न च मानकरोऽभ्यर्थनानपेक्षत्वात्, एवं त्रयोऽन्ये, उक्तं च आहारउवहिसयणाइएहिं गच्छस्सुवग्गहं कुणइ । बीओ न जाइ माणं दोन्नि वि तइओ न उ चउत्थो ॥ [व्यवहारभा० ४५७०] इति । अथवा- नो माणकरो त्ति गच्छार्थकरोऽहमिति न माद्यतीति । अनन्तरं गणस्यार्थ उक्तः, स च सङ्ग्रहोऽत आह– गणसंगहकरे त्ति गणस्याहारादिना 20 ज्ञानादिना च सङ्ग्रहं करोतीति गणसङ्ग्रहकरः, शेषं तथैव, उक्तं च सो पुण गच्छस्सऽट्ठो उ संगहो तत्थ संगहो दुविहो । दव्वे भावे नियमाउ होंति आहार-णाणादी ॥ [व्यवहारभा० ४५७१] १. सम्प्रति तु व्यवहारभाष्ये गाथा एवंरूपा उपलभ्यन्ते- “पुट्ठापुट्ठो पढम उ साहती न उ करेति माणं तु। बितिओ माणं करेति पुट्ठो वि न साहती किंचि ॥४५६८॥ ततिओ पुट्ठो साहति नोऽपुट्ठ चउत्थमेव सेवति तु। दो सफला दो अफला एवं गच्छे वि नातव्वा ॥४५६९॥ आहारोवहिसयणाइएहि गच्छस्सुवग्गहं कुणती । बितिओ माणं उभयं च ततियओ नोभय चउत्थो ॥४५७०॥ सो पुण गणस्स अट्ठो संगहकर तत्थ संगहो दुविधो। दव्वे भावे नियमाउ दोन्नि आहार-नाणादी ॥४५७१।।" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy