________________
[सू० ३१९] चतुर्थमध्ययनं चतुःस्थानकम् । तृतीय उद्देशकः ।।
४०९ वेगादिभिरित्येवं यानवद् व्याख्येयम्, एतदेवाह– एवं जहेत्यादि, प्रतिपक्षो दान्तिकस्तथैव, कोऽसावित्याह- पुरिसजाय त्ति पुरुषजातानि, एवं परिणत-रूपशोभसूत्रचतुर्भङ्गिका: सप्रतिपक्षा वाच्या:, यावच्छोभसूत्रचतुर्भङ्गी यथा ‘अजुत्ते नाम एगे अजुत्तसोभे', एतदेवाह- जाव सोभे त्ति। __ सारथि: शाकटिकः, योजयिता शकटे गवादीनाम्, न वियोजयिता मोक्ता, 5 अन्यस्तु वियोजयिता न तु योजयितेति, एवं शेषावपि, नवरं चतुर्थः खेटयत्येवेति, अथवा योकत्रयन्तं प्रयुङ्क्ते यः स योक्त्रापयिता, वियोकत्रयत: प्रयोक्ता तु वियोक्त्रापयितेति, लोकोत्तरपुरुषविवक्षायां तु सारथिरिव सारथिर्योजयिता संयमयोगेषु साधूनां प्रवर्त्तयिता, वियोजयिता तु तेषामेवानुचितानां निवर्तयितेति, यानसूत्रवत् हय-गजसूत्राणीति ।
जुग्गारिय त्ति युग्यस्य चर्या वहनं गमनमित्यर्थः, क्वचित्तु जुग्गायरिय त्ति पाठः, 10 तत्रापि युग्याचर्येति । पथयायि एकं युग्यं भवति नोत्पथयायीत्यादिश्चतुर्भङ्गी, इह च युग्यस्य चर्याद्वारेणैव निर्देशे चतुर्विधत्वेनोक्तत्वात् तच्चर्याया एवोद्देशोक्तं चातुर्विध्यमवसेयमिति । भावयुग्यपक्षे तु युग्यमिव युग्यं संयमयोगभरवोढा साधु:, स च पथियाय्यप्रमत्तः, उत्पथयायी लिङ्गावशेष:, उभययायी प्रमत्तः, चतुर्थ: सिद्धः, क्रमेण सदसदुभयानुभयानुष्ठानरूपत्वात् । अथवा पथ्युत्पथयो: स्वपरसमयरूपत्वाद् यायित्वस्य 15 च गत्यर्थत्वेन बोधपर्यायत्वात् स्वसमय-परसमयबोधापेक्षयेयं चतुर्भङ्गी नेयेति । ___ एकं पुष्पं रूपसम्पन्नं न गन्धसम्पन्नमाकुलीपुष्पवत्, द्वितीयं बकुलस्येव, तृतीयं जातेरिव, चतुर्थं बदर्यादेरिवेति । पुरुषो रूपसम्पन्नो रूपवान् सुविहितरूपयुक्तो वेति जाति ६ कुल ५ बल ४ रूप ३ श्रुत २ शील १ चारित्रलक्षणेषु सप्तसु पदेषु एकविंशतौ द्विकसंयोगेषु एकविंशतिरेव चतुर्भङ्गिका: कार्या: सुगमाश्चेति ।।
20 ____ आमलकमिव मधुरं यदन्यत् आमलकमेव वा मधुरमामलकमधुरम्, मुद्दिय त्ति १. तानीत्येवं पा० जे२ ॥ २. 'यायि एवंपीत्यादिचतुर्भङ्गी जे१ ॥ ३. "त्वाच्चर्याया' खं० जेसं१ ॥ ४. पथया जे१ ॥ ५. द्वितीयं च बकु पा० ॥ ६. १ जाति० कुल०, २ जाति० बल०, ३ जाति० रूप०, ४ जाति० श्रुत०, ५ जाति० शील०, ६ जाति० चारित्र० । १ कुल० बल०, २ कुल० रूप०, ३ कुल० श्रुत०, ४ कुल० शील०, ५ कुल० चारित्र० । १ बल० रूप०, २ बल० श्रुत०, ३ बल० शील०, ४ शील. चारित्र० । १ रूप० श्रुत०, २ रूप० शील०, ३ रूप० चारित्र० । १ श्रुत० शील०, २ श्रुत० चारित्र०, १ शील. चारित्र० इति सप्तसु पदेषु एकविंशतिः चतुर्भङ्गिकाः ॥
-A-11
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org