SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ ४०८ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे ___ चत्तारि पुरिसजाता पन्नत्ता, तंजहा-धम्मं नाममेगे जहति नो गणसंथिति ह्व [= ४] । __ चत्तारि पुरिसजाया पन्नत्ता, तंजहा-पियधम्मे नाममेगे नो दढधम्मे. दढधम्मे नाममेगे नो पियधम्मे, एगे पियधम्मे वि दढधम्मे वि, एगे नो 5 पियधम्मे नो दढधम्मे । टी०] अनन्तरमुच्चेतराभिप्राय उक्तः, स च लेश्याविशेषाद् भवतीति लेश्यासूत्राणि सुगमानि च, नवरम् असुरादीनां चतस्रो लेश्या द्रव्याश्रयेण भावतस्तु षडपि सर्वदेवानाम्, मनुष्य-पञ्चेन्द्रियतिरश्चां तु द्रव्यतो भावतश्च षडपीति, पृथिव्यब्-वनस्पतीनां हि तेजोलेश्या भवति देवोत्पत्तेरिति तेषां चतस्र इति । उक्तलेश्याविशेषेण च विचित्रपरिणामा मानवाः 10 स्युरिति यानादिदृष्टान्तचतुर्भङ्गिकाभिरन्यथा च पुरुषचतुर्भङ्गिका यानसूत्रादिना श्रावकसूत्रावसानेन ग्रन्थेन दर्शयन्नाह- चत्तारीत्यादि, कण्ठ्यश्चायम्, नवरं यानं शकटादि, तद् युक्तं बलीवादिभिः, पुनर्युक्तं सङ्गतं समग्रसामग्रीकं वा पूर्वापरकालापेक्षया वा इत्येकम्, अन्यत् युक्तं तथैवाऽयुक्तं तूक्तविपरीतत्वादिति, एवमितरौ, पुरुषस्तु युक्तो धनादिभिः, पुनर्युक्त उचितानुष्ठानैः सद्भिर्वा, पूर्वकाले वा युक्तो धन-धर्मानुष्ठानादिभिः 15 पश्चादपि तथैवेति चतुर्भङ्गी, अथवा युक्तो द्रव्यलिङ्गेन भावलिङ्गेन चेति प्रथम: साधु:, द्रव्यलिङ्गेन नेतरेणेति द्वितीयो निह्नवादिः, न द्रव्यलिङ्गेन भावलिङ्गेन तु युक्त इति तृतीय: प्रत्येकबुद्धादिः, उभयवियुक्तश्चतुर्थो गृहस्थादिरिति, एवं सूत्रान्तराण्यपि । नवरं युक्तं गोभिः, युक्तपरिणतं तु अयुक्तं सत् सामग्र्या युक्ततया परिणतमिति, पुरुष: पूर्ववत्। युक्तरूपं सङ्गतस्वभावं प्रशस्तं वा युक्तं युक्तरूपमिति । पुरुषपक्षे युक्तो धनादिना 20 ज्ञानादिगुणैर्वा युक्तरूप: उचितवेष: सुविहितनेपथ्यो वेति । तथा युक्तं तथैव, युक्तं शोभते युक्तस्य वा शोभा यस्य तद्युक्तशोभमिति, पुरुषस्तु युक्तो गुणैस्तथा युक्ता उचिता शोभा यस्य स तथेति । __ युग्यं वाहनमश्वादि, अथवा गोल्लविषये जम्पानं द्विहस्तप्रमाणं चतुरस्रं सवेदिकमुपशोभितं युग्यकमुच्यते तद् युक्तमारोहणसामग्र्या पर्याणादिकया पुनर्युक्तं १. तत् जे१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy