SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ [सू० ३१९] आहारोपधि- शय्या - ज्ञानादीनीत्यर्थः । गणस्यानवद्यसाधुसामाचारीप्रवर्त्तनेन वादि- धर्मकथि-नैमित्तिक-विद्यासिद्धत्वादिना वा शोभाकरणशीलो गणशोभाकरः, नो मानकरोऽभ्यर्थनाऽनपेक्षितया मदाभावेन वा । चतुर्थमध्ययनं चतुःस्थानकम् । तृतीय उद्देशकः । गणस्य यथायोगं प्रायश्चित्तदानादिना शोधिं शुद्धिं करोतीति गणशोधिकरः, अथवा 5 शङ्किते भक्तादौ सति गृहिकुले गत्वाऽनभ्यर्थितो भक्तशुद्धिं करोति यः स प्रथमः, यस्तु मानान्न गच्छति स द्वितीयः, यस्त्वभ्यर्थितो गच्छति स तृतीय:, यस्तु नाभ्यर्थनापेक्षी नापि तत्र गन्ता स चतुर्थ इति । रूपं साधुनेपथ्यं जहाति त्यजति कारणवशात् न धर्मं चारित्रलक्षणं बोटिकमध्यस्थितमुनिवत्, अन्यस्तु धर्म्यं न रूपं निह्नववत्, उभयमपि उत्प्रव्रजितवत्, 10 नोभयं सुसाधुवत् । ४११ धर्मं त्यजत्येको जिनाज्ञारूपं न गणसंस्थितिं स्वगच्छकृतां मर्यादाम्, कैश्चिदाचार्यैः तीर्थकरानुपदेशेन संस्थितिः कृता यथा नास्माभिर्महाकल्पाद्यतिशयश्रुतमन्यगणसत्काय देयमिति, एवं च योऽन्यगणसत्काय न तद्ददाति स धर्मं त्यजति न गणस्थितिम्, जिनाज्ञाननुपालनात्, तीर्थकरोपदेशो ह्येवम्- सर्वेभ्यो योग्येभ्यः श्रुतं 15 दातव्यमिति प्रथमः, यस्तु ददाति स द्वितीय:, यस्त्वयोग्येभ्यः तद्ददाति स तृतीय:, यस्तु श्रुताव्यवच्छेदार्थं तदव्यवच्छेदसमर्थस्य परशिष्यस्य स्वकीयदिग्बन्धं कृत्वा श्रुतं ददाति तेन न धर्म्मो नापि गणसंस्थितिस्त्यक्तेति स चतुर्थ इति, उक्तं च सयमेव दिसबंधं काऊण पडिच्छगस्स जो देइ । Jain Education International उभयमवलंबमाणं कामं तु तयं पि पूएमो ॥ [ व्यवहारभा० ४५८४] त्ति । प्रियो धर्म्मो यस्य तत्र प्रीतिभावेन सुखेन च प्रतिपत्तेः स प्रियधर्म्मा, न च दृढो धर्म्मो यस्य, आपद्यपि तत्परिणामाविचलनात्, अक्षोभत्वादित्यर्थः, स दृढधर्मेति, उक्तं च इह दसविहवेयावच्चे अन्नतरे खिप्पमुज्जमं कुणति । अच्वंतमणेव्वाणिं धिइविरियकिसो पढमभंगो ॥ [ व्यवहारभा० ४५८७] अन्यस्तु दृढधर्म्मा अङ्गीकृतापरित्यागात् न तु प्रियधर्म्मा कष्टेन धर्म्मप्रतिपत्तेः, इतरौ For Private & Personal Use Only 20 25 www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy