________________
४०३
[सू० ३१६] चतुर्थमध्ययनं चतुःस्थानकम् । तृतीय उद्देशकः ।। परमसुखसंदोहोदयेनेत्युदितोदितो यथा भरतः, उदितोदितत्वं चास्य प्रसिद्धम् १, तथा उदितश्चासौ तथैव अस्तमितश्च भास्कर इव सर्वसमृद्धिभ्रष्टत्वात् दुर्गतिगतत्वाच्चेत्युदितास्तमितो ब्रह्मदत्तचक्रवर्तीव, स हि पूर्वमुदित उन्नतकुलोत्पन्नत्वादिना स्वभुजोपार्जितसाम्राज्यत्वेन च पश्चादस्तमितः अतथा-विधकारणकुपितब्राह्मणप्रयुक्तपशुपालधनुर्गोलिकाप्रक्षेपणोपायप्रस्फोटिताक्षिगोलकतया 5 मरणानन्तराप्रतिष्ठानमहानरकमहावेदनाप्राप्ततया चेति २, तथा अस्तमितश्चासौ हीनकुलोत्पत्ति-दुर्भगत्व-दुर्गतत्वादिना उदितश्च समृद्धि-कीर्ति-सुगतिलाभादिनेति अस्तमितोदितो यथा हरिकेशबलाभिधानोऽनगारः, स हि जन्मान्तरोपात्तनीचैर्गोत्रकर्मवशावाप्तहरिकेशाभिधानचाण्डालकुलतया दुर्भगतया दरिद्रतया च पूर्वमस्तमितादित्य इवानभ्युदयवत्त्वादस्तमित इति, पश्चात्तु प्रतिपन्नप्रव्रज्यो 10 निष्प्रकम्पचरणगुणावर्जितदेव-कृतसान्निध्यतया प्राप्तप्रसिद्धितया सुगतिगततया च उदित इति ३, तथा अस्तमितश्चासौ सूर्य इव दुष्कुलतया दुष्कर्मकारितया च कीर्त्तिसमृद्धिलक्षणतेजोवर्जितत्वादस्तमितश्च दुर्गतिगमनादित्यस्तमितास्तमितः, यथा कालाभिधानः सौकरिकः, स हि सूकरैश्चरति मृगयां करोतीति यथार्थः सौकरिक एव दुष्कुलोत्पन्नः प्रतिदिनं महिषपञ्चशतीव्यापादक इति पूर्वमस्तमितः पश्चादपि मृत्वा 15 सप्तमनरकपृथिवीं गत इति अस्तमित एवेति ४। भरहेत्यादि तु उदाहरणसूत्रं भावितार्थमेवेति । __ [सू० ३१६] चत्तारि जुम्मा पन्नत्ता, तंजहा-कडजुम्मे, तेयोए, दावरजुम्मे, कलिओए । नेरतिताणं चत्तारि जुम्मा पन्नत्ता, तंजहा-कडजुम्मे तेओए दावरजुम्मे, कलितोए । एवं असुरकुमाराणं जाव थणियकुमाराणं, एवं 20 पुढविकाइयाणं आउ[काइयाणं] तेउ[काइयाणं] वाउ [काइयाणं] वणस्सति[काइयाणं] बेंदिताणं तेदियाणं चउरिंदियाणं पंचिंदियतिरिक्खजोणियाणं मणुस्साणं वाणमंतरजोइसियाणं वेमाणियाणं सव्वेसिं जधा नेरतिताणं ।
[टी०] य एवं विचित्रभावैश्चिन्त्यन्ते जीवाः सर्व एव चतुर्पु राशिष्ववतरन्तीति तान् दर्शयन्नाह- चत्तारि जुम्मेत्यादि, जुम्म त्ति राशिविशेषः, यो हि राशिश्चतुष्कापहारेण 25 १. बादर भां० । वावर क० पा० ॥ २. कलिजोगे भां० क० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org