________________
४०२
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे हियए जिणाण आणा चरियं मह एरिसं अउन्नस्स । एयं आलप्पालं अव्वो दूरं विसंवयइ ॥ हयमम्हाणं नाणं हयमम्हाणं मणुस्समाहप्पं । जे किल लद्धविवेया वि चेट्ठिमो बालबाल व्व ॥ [ ] त्ति ।।
यत्रावसरे शीलानि समाधानविशेषाः ब्रह्मचर्य विशेषा वा, व्रतानि स्थूलप्राणातिपातविरमणादीनि, अन्यत्र तु शीलानि अणुव्रतानि व्रतानि सप्त शिक्षाव्रतानि, तदिह न व्याख्यातम्, गुणव्रतादीनां साक्षादेवोपादानादिति, गुणव्रते दिग्व्रतोपभोगपरिभोगव्रतलक्षणे, विरमणानि अनर्थदण्डविरतिप्रकारा रागादिविरतयो वा,
प्रत्याख्यानानि नमस्कारसहितादीनि, पोषधः पर्वदिनमष्टम्यादि, तत्रोपवसनम् 10 अभक्तार्थः पोषधोपवासः, एतेषां द्वन्द्वस्तान् प्रतिपद्यते अभ्युपगच्छति तत्रापि च
से तस्यैक आश्वासः प्रज्ञप्तः १, यत्रापि च सामायिकं सावधयोगपरिवर्जननिरवद्ययोगप्रतिसेवनलक्षणं यद्व्यवस्थितः श्राद्धः श्रमणभूतो भवति, तथा देशे दिग्व्रतगृहीतस्य दिक्परिमाणस्य विभागे अवकाशः अवस्थानमवतारो विषयो यस्य तद्देशावकाशम्, तदेव देशावकाशिकं दिव्रतगृहीतस्य दिक्परिमाणस्य प्रतिदिनं 15 सक्षेपकरणलक्षणं सर्वव्रतसक्षेपकरणलक्षणं वा अनुपालयति प्रतिपत्त्य
नन्तरमखण्डमासेवत इति, तत्रापि च तस्यैक आश्वासः प्रज्ञप्त इति २, उद्दिष्टेत्यमावास्या, परिपूर्णमिति अहोरात्रं यावत् आहार-शरीरसत्कारत्याग-ब्रह्मचर्याऽव्यापारलक्षणभेदोपेतमिति ३, यत्रापि च पश्चिमैवामङ्गलपरिहारार्थमपश्चिमा सा चासौ
मरणमेवान्तो मरणान्तस्तत्र भवा मारणान्तिकी सा चेत्यपश्चिममारणान्तिकी सा चासौ 20 संलिख्यतेऽनया शरीर-कषायादीति संलेखना तपोविशेषः सा चेति
अपश्चिममारणान्तिकसंलेखना, तस्याः झूसण त्ति जोषणा सेवनालक्षणो यो धर्मस्तया झूसिय त्ति जुष्टः सेवितः, अथवा क्षपितः क्षपितदेहो यः स तथा, तथा भक्त-पाने प्रत्याख्याते येन स तथा, पादपवत् उपगतो निश्चेष्टतया स्थितः पादपोपगतः,
अनशनविशेष प्रतिपन्न इत्यर्थः, कालं मरणकालम् अनवकासन् तत्रानुत्सुक इत्यर्थः, 25 विहरति तिष्ठति ।
उदितश्चासौ उन्नतकुल-बल-समृद्धि-निरवद्यकर्मभिरभ्युदयवान् उदितश्च
Jain Education International
... For Private & Personal Use Only
www.jainelibrary.org