________________
[सू० ३०७ चतुर्थमध्ययनं चतुःस्थानकम् । द्वितीय उद्देशकः । च ते ध्वजाश्चेति, अथवा महेन्द्रस्येव शक्रादेर्ध्वजा महेन्द्रध्वजाः । शाश्वतपुष्करिण्य: सर्वा अपि सामान्येन नन्दा इत्युच्यन्ते । सत्तिवन्नवणं ति सप्तच्छदवनमिति । तिसोमा(वा?)णपडिरूवग त्ति एकद्वार प्रति निर्गमप्रवेशार्थं त्रिदिगभिमुखास्तिम्र: सोपानपङ्क्तयः । दधिवत् श्वेतं मुखं शिखरं रजतमयत्वात् येषां ते तथा, उक्तं चसंखदलविमलनिम्मलदहिघण-गोखीर-हारसंकासा ।
5 गगणतलमणुलिहंता सोहंते दहिमुहा रम्मा ॥ [द्वीपसागर० ५०] इति ।
बहुमध्यदेशभागे उक्तलक्षणे विदिक्षु पूर्वोत्तराद्यासु रतिकरणाद् रतिकरा: ४, राजधान्यः क्रमेण कृष्णादीनामिन्द्राणीनामिति, तत्र दक्षिणलोकार्द्धनायकत्वाच्छक्रस्य पूर्वदक्षिणदक्षिणापरविदिग्द्वयरतिकरयोस्तस्येन्द्राणीनां राजधान्य इतरयोरीशानस्योत्तरलोकार्द्धाधिपतित्वात् तस्येति । एवं च नन्दीश्वरे द्वीपे अञ्जनक ४-दधिमुखेषु १६ 10 विंशतिर्जिनायतनानि भवन्ति, अत्र च देवा: ४ चातुर्मासिकप्रतिपत्सु सांवत्सरिकेषु चान्येषु च बहुषु जिनजन्मादिषु देवकार्येषु समुदिता अष्टाहिकामहिमा: कुर्वन्त: सुखंसुखेन विहरन्तीत्युक्तं जीवाभिगमे, ततो यद्यन्यान्यप्यतथाविधानि सन्ति सिद्धायतनानि तदा न विरोध:, सम्भवन्ति च तानि उक्तनगरीषु विजय नगर्या मिवेति, तथा दृश्यते च । पञ्चदशस्थानोद्धारलेश:
सोलस दहिमुहसेला कुंदामलसंखचंदसंकासा । कणयनिभा बत्तीसं रइकरगिरि बाहिरा तेसिं ॥ [ ] द्वयोर्द्वयोर्वाप्योरन्तराले बहिःकोणयोः प्रत्यासन्नौ द्वौ द्वावित्यर्थः । अंजणगाइगिरीणं णाणामणिपज्जलंतसिहरेसु । बावन्नं जिणणिलया मणिरयणसहस्सकूडवरा ॥ [ ] इति । तत्त्वं तु बहुश्रुता विदन्तीति । १. प्रदेशार्थं जे१ खं० ॥ २. 'तत्थ णं बहवे भवणवइ-वाणमंतर-जोइसिय-वेमाणिया देवा तिहिं चाउमासिएहिं पज्जोसवणाए य अट्ठविहाओ य महिमाओ करेंति, अन्नेसु य बहुसुं जिणजम्मण-निक्खमण-नाणुप्पाद-परिनिव्वाणमादिएसु एव कज्जेसु देवसमितीसु य देवसमवाएसु य देवसमुदएसु य समुवागता समाणा पमुदितपक्कीलिता अठ्ठाहियारूवाओ महामहिमाओ करेमाणा सुहंसुहेणं विहरंति' इति जीवाभिगमसूत्रे तृतीयस्यां प्रतिपत्तौ पाठः, सू० २९४ ॥ ३. न्यपि तथा जेसं१ खंसं०, पासं० ॥ ४. संभवंति च तानि उक्तनगरीषु विजयनगर्यामिवेति तथा इति पाठः खं० जेसं१ पामू० मध्ये नास्ति ॥ ५. नगर्यापितेति तथा जे१ ॥
15
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org