________________
३९४
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे शोधिता वा प्रमार्जनिकयेव, अत एव नीरजस: रजोरहितत्वात्, निर्मला: कठिनमलाभावात् धौतवस्त्रवद्वा, निष्पङ्का आर्द्रमलाभावात् अकलङ्कत्वाद्वा, निक्कंकडच्छाया, निष्कङ्कटा निष्कवचा निरावरणेत्यर्थः छाया शोभा येषां ते तथा,
अकलङ्कशोभा वा, सप्रभा देवान्दकत्वादिप्रभावयुक्ताः, अथवा स्वेन आत्मना प्रभान्ति 5 न परत इति स्वप्रभाः, यत: संमरिचीया सह मरीचिभि: किरणैर्ये ते तथा, अत एव
सउज्जोया सहोद्योतेन वस्तुप्रभासनेन वर्त्तन्ते ये ते तथा, पासाईय त्ति प्रासादीया: मनस: प्रसादकरा:, दर्शनीयास्तांश्चक्षुषा पश्यन्नपि न श्रमं गच्छतीत्यर्थः, अभिरूपाः कमनीया:, प्रतिरूपा: द्रष्टारं द्रष्टारं प्रति रमणीया इति यावत्शब्दसङ्ग्रहः । बहुसमाः
अत्यन्तसमा रमणीयाश्चेति । सिद्धानि शाश्वतानि सिद्धानां वा 10 शाश्वतीनामर्हत्प्रतिमानामायतनानि स्थानानि सिद्धायतनानि, उक्तं च
अंजणगपव्वयाणं सिहरतलेसुं हवंति पत्तेयं । अरहंताययणाई सीहणिसायाइं तुंगाइं ॥ [द्वीपसागर० ३९] मुखे द्वारे आयतनस्य मण्डपा मुखमण्डपा: पट्टशालारूपा:, प्रेक्षा प्रेक्षणकम्, तदर्थं गृहरूपा: मण्डपा: प्रेक्षागृहमण्डपाः प्रसिद्धस्वरूपाः, वैरं वज्रं रत्नविशेषस्तन्मया: 15 आखाटका: प्रेक्षाकारिजनासनभूता: प्रतीता एव । विजयदूष्याणि वितानकरूपाणि
वस्त्राणि, तन्मध्यभाग एवाऽङ्कुशा: अवलम्बननिमित्तम्, कुम्भो मुक्ताफलानां परिमाणतया विद्यते येषु तानि कुम्भिकानि मुक्तादामानि मुक्ताफलमाला:, कुम्भप्रमाणं च- दो असतीओ पसती, दो पसतीओ सेतिया, चत्तारि सेतियाओ कुडवो, चत्तारि कुडवा पत्थो, चत्तारि पत्था आढयं, चत्तारि आढया दोणो, सट्ठी आढयाई जहन्नो कुंभो, असीइ 20 मज्झिमो, सयमुक्कोसो [अनुयोगद्वार० सू० ३१८] इति । तदद्ध त्ति तेषामेव मुक्तादाम्नामर्द्धमुच्चत्वस्य प्रमाणं येषां तानि तदर्बोच्चत्वप्रमाणानि, तान्येव तन्मात्राणि, तैः, अद्धकुंभिकेहिं ति मुक्तफलार्द्धकुम्भवद्भिः, सर्वत: सर्वासु दिक्षु, किमुक्तं भवति? समन्तादिति । चैत्यस्य सिद्धायतनस्य प्रत्यासन्ना: स्तूपाः प्रतीताश्चैत्यस्तूपाश्चित्ताल्हादकत्वाद्वा चैत्या:(त्त्याः?) स्तूपा: चैत्यस्तूपा: । संपर्यङ्कनिषण्णाः 25 पद्मासननिषण्णाः , एवं चैत्यवृक्षा अपि, महेन्द्रा इति अतिमहान्त: समयभाषया, ते
१. समरीया खंमू० जे२, समिरीया खसं० पा० ॥ २. याश्च ये ते तथा, सिद्धानि पा० जे२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org