________________
३९३
[सू० ३०७] चतुर्थमध्ययनं चतुःस्थानकम् । द्वितीय उद्देशकः ।
जम्बू १ लवणे धायइ २ कालोये पुक्खराइ ३ जुयलाई ।
वारुणि ४ खीर ५ घतेक्खु ६-७ नंदीसर ८ अरुण ९ दीवुदही ॥ [बृहत्सं० ९२] ति गणनयाऽष्टमो नन्दीश्वरः, स एव वरः, अमनुष्यद्वीपापेक्षया बहुतरजिनभवनादिसद्भावेन तस्य वरत्वादिति, तस्य चक्रवालविष्कम्भस्य प्रमाण १६३८४०००००, उक्तं च
तेवढे कोडिसयं चउरासीइं च सयसहस्साई । नंदीसरवरदीवे विक्खंभो चक्कवालेणं ॥ [द्वीपसागर० २५] ति,
मध्यश्चासौ देशभागश्च देशावयवो मध्यदेशभागः, स च नात्यन्तिक इति बहुमध्यदेशभागो न प्रदेशादिपरिगणनया निष्टङ्कितः, अपि तु प्राय इति, अथवा अत्यन्तं मध्यदेशभागो बहुमध्यदेशभाग इति, तत्र । इहाऽञ्जनका: मूले दश योजनसहस्राणि विष्कम्भेणेत्युक्तम्, द्वीपसागरप्रज्ञप्तिसङ्ग्रहण्यां तूक्तम्- 10
चुलसीति सहस्साई उव्विद्धा ओगया सहस्समहे । धरणितले वित्थिन्ना य ऊणगा ते दससहस्सा ॥ नव चेव सहस्साई पंचेव य होंति जोयणसयाई । अंजणगपव्वयाणं मूलम्मि उ होइ विक्खंभो ॥ कन्दस्येत्यर्थः, नव चेव सहस्साइं चत्तारि य होंति जोयणसयाइं ।
15 अंजणगपव्वयाणं धरणियले होइ विक्खंभो ॥ [द्वीपसागर० २७, २९, ३१] इति, तदिदं मतान्तरमित्यवसेयम्, एवमन्यत्रापि, मतान्तरबीजानि तु केवलिगम्यानीति ।
गोपुच्छसंठाण त्ति गोपुच्छो ह्यादौ स्थूलोऽन्ते सूक्ष्मस्तद्वत्तेऽपीति, सव्वंजणमय त्ति अञ्जनं कृष्णरत्नविशेष:, तन्मयाः, सर्व एवानन्यमयत्वेन सर्वथैवाञ्जनमया: सर्वाञ्जनमयाः, परमकृष्णा इति भावः, उक्तं चभिंगंगरुइलकज्जलअंजणधाउसरिसा विरायंति । गगणतलमणुलिहंता अंजणगा पव्वया रम्मा ॥ [द्वीपसागर० ३७] इति ।
अच्छाः आकाशस्फटिकवत्, सण्हा श्लक्ष्णपरमाणुस्कन्धनिष्पन्ना: श्लक्ष्णदलनिष्पन्नपटवत्, लण्हा श्लक्ष्णा मसृणा इत्यर्थः, घुण्टितपटवत्, तथा घृष्टा इव घृष्टाः, खरशानया पाषाणप्रतिमावत्, मृष्टा इव मृष्टाः, सुकुमारशानया पाषाणप्रतिमेव, 25 १. अथवा मध्यदेशभाग एव बहुमध्यदेशभाग इति जे१ ॥ २. ते गया -द्वीपसागर० ॥ ३. अणूणगे ते दससहस्से -द्वीपसागर० ॥ ४. दो चेव सया हवंति उ अपुण्णा । -द्वीपसागर० ।।
-A-10
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org