________________
आचार्यश्री अभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे
जघन्यपदं तत्र विचार्ये सति अवश्यंभावेन चत्वारोऽर्हदादय इति । भूम्यां भद्रशालवनम्, मेखलायुगले च नन्दन - सौमनसे, शिखरे पण्डकवनमिति । अत्र गाथाः
बावीस सहस्साइं पुव्वावरमेरुभद्दसालवणं । अड्डाइज्जसया उण दाहिणपासे य उत्तरओ ॥ पंचेव जोयणसए उडुं गंतूण पंचसयपिहुलं । नंदणवणं सुमेरुं परिक्खिवित्ता ठियं रम्मं ॥ बासट्ठि सहस्साइं पंचेव सयाइं नंदणवणाओ । उडुं गंतूण वणं सोमणसं नंदणसरिच्छं || सोमणसाओ तीसं छच्च सहस्से विलग्गिऊण गिरिं । विमलजलकुंडगहणं हवइ वणं पंडगं सिहरे ॥ चत्तारि जोयणसया चउणउया चक्कवालओ रुंद ।
इगतीस जोयणसया बावट्ठी परिरओ तस्स || [बृहत्क्षेत्र० ३१७, ३२७, ३३८,३४६, ३४७] त्ति। तीर्थकराणामभिषेकार्थाः शिला अभिषेकशिलाः चूलिकायाः पूर्वदक्षिणापरोत्तरासु दिक्षु क्रमेणावगम्या इति, उवरिं ति अग्रे, विक्खंभेणं ति विस्तरेणेति । यथा जंबूदीवे 15 दीवे भरहेरवएसु वासेसु इत्यादिभिः सूत्रैः कालादयधूलिकान्ता अभिहिताः एवं धातकीखण्डस्य पूर्वार्द्धे पश्चिमार्द्धे पुष्करार्द्धस्यापि पूर्वार्द्ध पश्चिमार्द्धे च वाच्याः, एकमेरुसम्बद्धवक्तव्यतायाः चतुर्ष्वप्यन्येषु समानत्वाद्, एतदेवाह - एवमित्यादि । अमुमेवातिदेशं सङ्ग्रहगाथया आह- जंबूदीवेत्यादि, जम्बूद्वीपस्येदं जम्बूद्वीपकं तं वा गच्छतीति जम्बूद्वीपगम्, जम्बूद्वीपे यदिति क्वचित् पाठः, अवश्यंभावित्वाद् 20 वाच्यत्वाद्वाऽऽवश्यकं जम्बूद्वीपगतावश्यकं वा वस्तुजातम्, तुः पूरणे, किमादि किमन्तं चेत्याह कालात् सुषमसुषमालक्षणादारभ्य चूलिकां मन्दरचूलिकां यावत् यत्तदिति गम्यते, धातकीखण्डे पुष्करवरे च द्वीपे यौ पूर्वापरौ पार्श्वो प्रत्येकं पूवार्द्धमपरार्द्धं च तयोः, पूर्वापरेषु वर्षेषु वा क्षेत्रेष्वन्यूनाधिकं द्रष्टव्यमिति शेष इति ।
[सू० ३००] जंबूदीवस्स णं दीवस्स चत्तारि दारा पन्नत्ता, तंजहा - विजये, 25 वेजयंते, जयंते, अपराजिते । ते णं दारा चत्तारि जोयणाई विक्खंभेणं तावतितं चेव पवेसेणं पन्नत्ता, तत्थ णं चत्तारि देवा महिड्डिया जाव १. विलक्खिउण जे१ ॥ २. विक्खंभेणं विस्तरेणेति जे१ ॥
5
10
३८२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org