________________
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे
स्थितेः कषायहेतुकत्वादिति, अनुभागबन्धनोपक्रमोऽपि परिणाम एव, नवरं कषायरूपः, प्रदेशबन्धनोपक्रमस्तु स एव योगरूप इति, यत उक्तम्- जोगा पयडिपएसं ठिइअणुभागं कसायओ कुणइ [बन्धशतके ९९] इति, प्रकृत्यादिबन्धनानामारम्भा वा उपक्रमा इति, एवमन्यत्रापि । यन्मूलप्रकृतीनामुत्तरप्रकृतीनां वा दलिकं वीर्यविशेषेणाकृष्योदये दीयते 5 सा प्रकृत्युदीरणेति, वीर्यादेव या प्राप्तोदयया स्थित्या सहाप्राप्तोदया स्थितिरनुभूयते सा स्थित्युदीरणेति । तथैव प्राप्तोदयेन रसेन सहाप्राप्तोदयो रसो यो वेद्यते साऽनुभागोदीरणेति। तथा प्राप्तोदयैर्नियतपरिमाणकर्मप्रदेशैः सहाप्राप्तोदयानां नियतपरिमाणानां कर्मप्रदेशानां यद् वेदनं सा प्रदेशोदीरणेति । इहापि कषाय - योगरूपः परिणाम आरम्भो वोपक्रमार्थः, प्रकृत्युपशमनोपक्रमादयश्चत्वारोऽपि सामान्योपशमनोपक्रमानुसारेणावगन्तव्याः, 10 प्रकृतिविपरिणामनोपक्रमादयोऽपि सामान्यविपरिणामनोपक्रमलक्षणानुसारेणावबोद्धव्याः, उपक्रमस्तु प्रकृत्यादित्वेन पुद्गलानां परिणमनसमर्थं जीववीर्यमिति ।
अप्पाबहुए त्ति अल्पं च स्तोकं बहु च प्रभूतमल्पबहु, तद्भावोऽल्पबहुत्वम्, दीर्घत्वा-ऽसंयुक्तत्वे च प्राकृतत्वादिति, प्रकृतिविषयमल्पबहुत्वं बन्धाद्यपेक्षया, यथा सर्वस्तोकप्रकृतिबन्धक उपशान्तमोहादिः, एकविधबन्धकत्वाद्, बहुतरबन्धकः 15 उपशमका दिसूक्ष्मसम्परायः, षड्विधबन्धकत्वात्, बहुतरबन्धकः सप्तविधबन्धकस्ततोऽष्टविधबन्धक इति, स्थितिविषयमल्पबहुत्वं यथा - सव्वत्थोवो संजयस्स जहन्नओ ठितीबंधो, एगिंदियबायरपज्जत्तगस्स जहन्नओ ठिईबंधो असंखेज्जगुणो [ ] इत्यादि, अनुभागं प्रत्यल्पबहुत्वं यथा - सव्वत्थोवाई अणंतगुणवट्टिट्ठाणाणि, अंसंखेज्जगुणवड्ढिट्ठाणाणि असंखेज्जगुणाणि, संखेज्जगुणवट्टिट्ठाणाणि असंखेज्जगुणाणि जाव 20 अणंतभागवड्ढिट्ठाणाणि असंखेजगुणाणि [ ] । प्रदेशाल्पबहुत्वं यथा - अट्ठविहबंध आउयभागो थोवो, नामगोयाणं तुल्लो विसेसाहिओ, नाणदंसणावरणंतरायाणं तुल्लो विसेसाहिओ, मोहस्स विसेसाहिओ, वेयणीयस्स विसेसाहिओ [ ] इति । यां प्रकृतिं बध्नाति जीवः तदनुभावेन प्रकृत्यन्तरस्थं दलिकं वीर्यविशेषेण यत् परिणमयति स सङ्क्रमः, उक्तं च
१. 'णामनालक्षणा जे१ । २. 'शामका' जे१ ॥ ३ गुणाई जे१ खं० ॥ ४. गुणाई जे१ ॥
३७६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org