________________
३७७
10
[सू० २९७] चतुर्थमध्ययनं चतुःस्थानकम् । द्वितीय उद्देशकः ।
सो संकमो त्ति भन्नइ जब्बंधणपरिणओ पओगेणं । पययंतरत्थदलियं परिणमयइ तदणुभावे जं ॥ [कर्मप्र० २।१] इति ।
तत्र प्रकृतिसङ्क्रम: सामान्यलक्षणावगम्य एवेति, मूलप्रकृतीनामुत्तरप्रकृतीनां वा स्थितेर्यदुत्कर्षणम् अपकर्षणं वा प्रकृत्यन्तरस्थितौ वा नयनं स स्थितिसङ्क्रम इति, उक्तं च
5 ठितिसंकमो त्ति वुच्चइ मूलुत्तरपगतीओ उ जा हि ठिती । उव्वट्टिया व ओवटिया व पगई णिया वऽनं ॥ [कर्मप्र० २।२८] इति । अनुभागसंक्रमोऽप्येवमेव, यदाहतत्थट्ठपयं उव्वट्टिया व ओवट्टिया व अविभागा । अणुभागसंकमो एस अन्नपगई णिया वावि ॥ [कर्मप्र० २।४६] त्ति ।। अट्ठपयं ति अनुभागसङ्क्रमस्वरूपनिर्धारणम्, अविभाग त्ति अनुभागाः, निय त्ति नीता इति । यत् कर्मद्रव्यमन्यप्रकृतिस्वभावेन परिणाम्यते स प्रदेशसङ्क्रमः, उक्तं च
जं दलियमन्नपगई णिज्जइ सो संकमो पएसस्स । [कर्मप्र० २।६०] त्ति ।
निधानं निहितं वा निधत्तम्, भावे कर्मणि वा क्तप्रत्यये निपातनात्, उद्वर्त्तनाऽपवर्त्तनावर्जितानां शेषकरणानामयोग्यत्वेन कर्मणोऽवस्थापनमुच्यते, नितरां काचनं 15 बन्धनं निकाचितं कर्मणः सर्वकरणानामयोग्यत्वेनावस्थापनम्, उक्तं चोभयसंवादि
संकमणं पि निहत्तीऍ णत्थि सेसाणि चत्ति इयरस्स । [कर्मप्र० ६१] त्ति ।
इयरस्सत्ति निकाचनाकरणस्येति । अथवा पूर्वबद्धस्य कर्मणस्तप्त-संमीलितलोहशलाकासम्बन्धसमानं निधत्तम्, तप्त-मिलित-संकुट्टितलोहशलाकासम्बन्धसमानं निकाचितमिति, प्रकृत्यादिविशेषस्तूभयत्रापि सामान्यलक्षणानुसारेण नेय इति, विशेषतो 20 बन्धादिस्वरूपजिज्ञासुना कर्मप्रकृतिसङ्ग्रहणिरनुसरणीयेति । [सू० २९७] चत्तारि एक्का पन्नत्ता, तंजहा- देवियएक्कय, माउयएक्कए, पज्जवेक्कए, संगहेक्कए ।
चत्तारि कती पन्नत्ता, तंजहा- दवितकती, माउयकती, पजवकती, संगहकती। १. जं बंध पा० जे२ ॥ २. °णमई जे१ ॥ ३. दविए एक्कते माउए एक्कते पजवे एक्कते संगहे एक्कते
भां० विना । अत्रेदं बोध्यम्- हस्तलिखितादर्शेष ‘ए-य-प' इत्येषामक्षराणां सदशप्रायत्वात् भां० मध्ये दवि एक्कए माउए एक्कए इत्यपि पठितुं शक्यते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org