SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ [सू० २९६ ] चतुर्थमध्ययनं चतुः स्थानकम् । द्वितीय उद्देशकः । मारकः, कोऽपि बुद्धिकरः, कोऽपि व्यामोहकरः, एवं कर्म्मप्रकृतिः काचिज्ज्ञानमावृणोति काचिद्दर्शनं काचित् सुखदुःखादिवेदनमुत्पादयतीति, तथा तस्यैव मोदकस्य यथा अविनाशभावेन कालनियमरूपा स्थितिर्भवति, एवं कर्म्मणोऽपि तद्भावेन नियतकालावस्थानं स्थितिबन्ध:, तथा तस्यैव मोदकस्य यथा स्निग्ध- मधुरादिरेकगुणद्विगुणादिभावेन रसो भवति, एवं कर्म्मणोऽपि देश- सर्वघाति -: - शुभा - ऽशुभ- तीव्र- 5 मन्दादिरनुभागबन्ध:, तथा तस्यैव मोदकस्य यथा कणिक्कादिद्रव्याणां परिमाणवत्त्वम् एवं कर्म्मणोऽपि पुद्गलानां प्रतिनियतप्रमाणता प्रदेशबन्ध इति । १ उपक्रम्यते क्रियतेऽनेनेत्युपक्रमः कर्मणो बद्धत्वोदीरितत्वादिना परिणमनहेतुर्जीवस्य शक्तिविशेषो योऽन्यत्र करणमिति रूढः, उपक्रमणं वोपक्रमो बन्धनादीनामारम्भ:, स्यादारम्भ उपक्रमः [अमरको० ६८९ ] इति वचनादिति, तत्र बन्धनं कर्म्मपुद्गलानां 10 जीवप्रदेशानां च परस्परं सम्बन्धनम्, इदं च सूत्रमात्रबद्धलोहशलाकासम्बन्धोपममवगन्तव्यम्, तस्योपक्रम उक्तार्थो बन्धनोपक्रमः, आसकलितावस्थस्य वा कर्म्मणो बद्धावस्थीकरणं बन्धनम्, तदेवोपक्रमो वस्तुपरिकर्म्मरूपो बन्धनोपक्रमः, वस्तु परिकर्म्म वस्तु विनाशरूपस्याप्युपक्रमस्याभिहितत्वादिति एवमन्यत्रापि, नवरमप्राप्तकालफलानां कर्म्मणामुदये प्रवेशनमुदीरणा, उक्तं च जं करणेणोकड्डिय उदए दिज्जइ उदीरणा एसा । २ Jain Education International ३७५ " For Private & Personal Use Only पगइ-ठिती- अणुभाग-प्पएस- मूलुत्तरविभागा ॥ [ कर्मप्र० ४ | १ ] तथा उदयोदीरणा-निधत्त-निकाचनाकरणानामयोग्यत्वेन कर्म्मणोऽवस्थापनमुपशमनेति, उक्तं च- उव्वट्टण-ओवट्टण-संकमणाई च नेऽन्नकरणाई [कर्मप्र० ५।६७] ति उपशमनायां सन्तीति प्रक्रमः । तथा विविधैः प्रकारै: कर्म्मणां 20 सत्तोदयक्षयक्षयोपशमोद्वर्त्तनापवर्त्तनादिभिरेतद्रूपतयेत्यर्थः, गिरिसरिदुपलन्यायेन द्रव्यक्षेत्रादिभिर्वा करणविशेषेण वाऽवस्थान्तरापादनं विपरिणामना, इह च विपरिणामना बन्धनादिषु तदन्येष्वप्युदयादिष्वस्तीति सामान्यरूपत्वाद् भेदेनोक्तेति । बन्धनोपक्रमो बन्धनकरणं चतुर्द्धा, तत्र प्रकृतिबन्धनस्योपक्रमो जीवपरिणामो योगरूपः, तस्य प्रकृतिबन्धहेतुत्वादिति, स्थितिबन्धनस्यापि स एव, नवरं कषायरूपः, 25 १. “ पारम्पर्योपदेशे स्यादैतिह्यमितिहाव्ययम् । उपज्ञा ज्ञानमाद्यं स्यात् ज्ञात्वारम्भ उपक्रमः ॥ ६८९ || अमरकोषे ॥ २. पगईठि पा० जे२ ॥ ३. न अन्न खं० पा० जे२ ॥ 15 - www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy