SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ ३७३ [सू० २९५-२९६] चतुर्थमध्ययनं चतुःस्थानकम् । द्वितीय उद्देशकः । व्यपदिश्यते, उक्तं च- नेरइए णं भंते ! नेरइएसु उववजइ अनेरइए नेरइएसु उववजह ? गोयमा! नेरइए नेरइएसु उववज्जइ [प्रज्ञापना० १७।३।११९९] इति, ततो नैरयिकस्य संसरणम् उत्पत्तिदेशगमनमपरापरावस्थागमनं वा नैरयिकसंसारः, अथवा संसरन्ति जीवा यस्मिन्नसौ संसारो गतिचतुष्टयम्, तत्र नैरयिकस्यानुभूयमानगतिलक्षण: परम्परया चतुर्गतिको वा संसारो नैरयिकसंसार:, एवमन्येऽपि । 5 उक्तरूपश्च संसार आयुषि सति भवतीति आयु:सूत्रम्, तत्र एति च याति चेत्यायु: कर्मविशेष इति, तत्र येन निरयभवे प्राणी ध्रियते तन्निरयायुः, एवमन्यान्यपि । उक्तरूपं चायुर्भवे स्थितिं कारयतीति भवसूत्रं कण्ठ्यम्, केवलं भवनं भव: उत्पत्तिः, निरये भवो निरयभवः, मनुष्येषु मनुष्याणां वा भवो मनुष्यभव:, एवमन्यावपि । [सू० २९५] चउव्विहे आहारे पन्नत्ते, तंजहा-असणे, पाणे, खाइमे, साइमे १। 10 चउव्विहे आहारे पन्नत्ते, तंजहा- उवक्खरसंपन्ने, उवक्खडसंपन्ने, सभावसंपन्ने, परिजुसितसंपन्ने २॥ [टी०] भवेषु च सर्वेष्वाहारका जीवा: इत्याहारसूत्रे, तत्राहियत इत्याहारः, अश्यत इत्यशनम् ओदनादि, पीयत इति पानं सौवीरादि, खाद: प्रयोजनमस्येति खादिमं फलवर्गादि, स्वाद: प्रयोजनमस्येति स्वादिमं ताम्बूलादि, उपस्क्रियतेऽनेत्युपस्करो 15 हिङ्ग्वादिस्तेन सम्पन्नो युक्त उपस्करसम्पन्नः, तथा उपस्करणमुपस्कृतं पाक इत्यर्थस्तेन सम्पन्नः ओदन-मण्डकादिः उपस्कृतसम्पन्नः, पाठान्तरेण नोउवक्खरसंपन्नो हिङ्ग्वादिभिरसंस्कृत ओदनादिः, स्वभावेन पाकं विना सम्पन्नः सिद्ध: द्राक्षादिः स्वभावसम्पन्नः, परिजुसिय त्ति पर्युषितं रात्रिपरिवसनम्, तेन सम्पन्न: पर्यषितसम्पन्न इंड्डुरिकादिः, यतस्ता: पर्युषितकलनीकृता: अम्लरसा भवन्ति, आरनालास्थिता- 20 म्रफलादिति । [सू० २९६] चउव्विधे बंधे पन्नत्ते, तंजहा-पगतिबंधे, ठितिबंधे, अणुभावबंधे, पदेसबंधे । चउम्विधे उवक्कमे पन्नत्ते, तंजहा-बंधणोवक्कमे, उदीरणोवक्कमे १. 'उववज्जति, णो अणेरइए णेरइएसु उववजति' इति सम्पूर्ण सूत्रं प्रज्ञापनासूत्रे सप्तदशे लेश्यापदे तृतीय उद्देशके ॥ २. उवकरणसंपन्ने भां० ॥ ३. इड्डुरि खं० ॥ ४. आम्ल पा० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy