________________
३७२
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे शैलस्तम्भः, एवमन्येऽपि, नवरम् अस्थि दारु च प्रतीतम्, तिनिशो वृक्षविशेषस्तस्य लता कम्बा तिनिशलता, सा चात्यन्तमद्वीति, मानस्यापि शैलस्तम्भादिसमानता तद्वतो नमनाभावविशेषात् ज्ञेयेति, मानोऽप्यनन्तानुबन्ध्यादिरूप: क्रमेण दृश्यः, तत्फलसूत्रं व्यक्तम्, कृमिरागे वृद्धसम्प्रदायोऽयम्-मनुष्यादीनां रुधिरं गृहीत्वा केनापि योगेन युक्तं 5 भाजने स्थाप्यते, ततस्तत्र कृमय उत्पद्यन्ते ते च वाताभिलाषिण: छिद्रनिर्गता आसन्ना
भ्रमन्तो निहरिलाला मुञ्चन्ति, ता: कृमिसूत्रं भण्यते, तच्च स्वपरिणामरागरञ्जितमेव भवति, अन्ये भणन्ति- ये रुधिरे कृमय उत्पद्यन्ते तान् तत्रैव मृदित्वा कचवरमुत्तार्य तद्रसे कञ्चिद् योग प्रक्षिप्य पट्टसूत्रं रञ्जयन्ति, स च रस: कृमिरागो भण्यते अनुत्तारीति,
तत्र कृमीणां रागो रञ्जकरस: कृमिरागः, तेन रक्तं कृमिरागरक्तम्, एवं सर्वत्र, नवरं 10 कईमो गोवाटादीनाम् खञ्जनं दीपादीनाम्, हरिद्रा प्रतीतैवेति, कृमिरागादिरक्तवस्त्रसमानता
च लोभस्य अनन्तानुबन्ध्यादितद्भेदवतां जीवानां क्रमेण दृढ-हीन-हीनतरहीनतमानुबन्धत्वात्, तथाहि- कृमिरागरक्तं वस्त्रं दग्धमपि न रागानुबन्धं मुञ्चति, तद्भस्मनोऽपि रक्तत्वाद्, एवं यो मृतोऽपि लोभानुबन्धं न मुञ्चति तस्याभिधीयते लोभ:
कृमिरागरक्तवस्त्रसमानोऽनन्तानुबन्धी चेति, एवं सर्वत्र भावना कार्येति । फलसूत्रं 15 स्पष्टम्। इह कषायप्ररूपणागाथा:
जल-रेणु-पुढवि-पव्वयराईसरिसो चउव्विहो कोहो । तिणिसलया-कट्ठट्ठिय-सेलत्थंभोवमो माणो ॥ मायाऽवलेहि-गोमुत्ति-मेंढसिंग-घणवंसिमूलसमा ।
लोभो हलिद्द-खंजण-कद्दम-किमिरागसारिच्छो ॥ 20 पक्ख-चउमास-वच्छर-जावज्जीवाणुगामिणो कमसो ।
देव-नर-तिरिय-नारयगइसाहणहेयवो भणिया ॥ [विशेषाव० २९९०-९२] इति । [सू० २९४] चउव्विहे संसारे पन्नत्ते, तंजहा-णेरतियसंसारे जाव देवसंसारे। चउव्विहे आउते पन्नत्ते, तंजहा-णेरतिताउते जाव देवाउते ।
चउव्विहे भवे पन्नत्ते, तंजहा-निरतभवे जाव देवभवे । 25 [टी०] अनन्तरं कषाया: प्ररूपिता:, कषायैश्च संसारो भवतीति संसारस्वरूपमाह
चउव्विहे इत्यादि व्यक्तम्, किन्तु संसरणं संसारः मनुष्यादिपर्यायान्नारकादिपर्यायगमनमिति, नैरयिकप्रायोग्येष्वायुर्नामगोत्रादिषु कर्मसूदयगतेषु जीवो नैरयिक इति १. विहेत्यादि जे१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org