________________
३६८
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे लङ्घयति निर्ग्रन्थाचारम्, एगो एगिथिए सद्धिं नेव चिट्टे न संलवे [उत्तरा० १।२६] विशेषत: साध्व्या, इत्येवंरूपम्, मार्गप्रश्नादीनां पुष्टालम्बनत्वादिति । तत्र मार्ग पृच्छन्, प्रश्ननीयसाधर्मिकगृहस्थपुरुषादीनामभावे- हे आर्ये ! कोऽस्माकमितो गच्छतां मार्ग
इत्यादिना क्रमेण, मार्ग वा तस्या देशयन्- धर्मशीले ! अयं मार्गस्ते इत्यादिना क्रमेण, 5 अशनादि वा ददद्– धर्मशीले ! गृहाणेदमशनादीत्येवम्, तथा अशनादि दापयन्आर्ये ! दापयाम्येतत्तुभ्यम् आगच्छेह गृहादावित्यादिविधिनेति ।
[सू० २९१] तमुक्कायस्स णं चत्तारि नामधेजा पन्नत्ता, तंजहा-तमे ति वा, तमुक्काते ति वा, अंधगारे ति वा, महंधगारे ति वा ।
तमुक्कायस्स णं चत्तारि णामधेजा पन्नत्ता, तंजहा-लोगंधगारे ति वा, 10 लोगतमसे ति वा, देवंधगारे ति वा, देवतमसे ति वा २॥
तमुक्कायस्स णं चत्तारि नामधेजा पन्नत्ता, तंजहा-वातफलिहे ति वा, वातफलिहखोभे ति वा, देवारण्णे ति वा, देववूहे ति वा ३॥
तमुक्काते णं चत्तारि कप्पे आवरित्ता चिट्ठति, तंजहा-सोधम्ममीसाणं सणंकुमारं माहिंदं ४।
[टी०] तथा तमस्कायं तम इत्यादिभि: शब्दैः व्याहरन्नातिक्रामति भाषाचारं यथार्थत्वादिति तानाह- तमुक्कायेत्यादि सूत्रत्रयं सुगमम्, नवरं तमस: अप्कायपरिणामरूपस्यान्धकारस्य कायः प्रचयस्तमस्कायः, यो ह्यसङ्ख्याततमस्यारुणवराभिधानद्वीपस्य बाह्यवेदिकान्तादरुणोदाख्यं समुद्रं द्विचत्वारिंशद्
योजनसहस्राण्यवगाह्योपरितनाजलान्तादे कप्रदेशिकया श्रेण्या समुत्थितः 20 सप्तदशैकविंशत्यधिकानि योजनशतानि ऊर्ध्वमुत्पत्य ततः तिर्यक् प्रविस्तृणन्
सौधर्मादींश्चतुरो देवलोकानावृत्योर्ध्वमपि च ब्रह्मलोकस्य रिष्टं विमानप्रस्तटं सम्प्राप्त:, तस्य नामान्येव नामधेयानि, तम इति तमोरूपत्वादितिरुपप्रदर्शने, वा विकल्पे, तमोमात्ररूपताभिधायकान्याद्यानि चत्वारि नामधेयानि, तथाऽपराणि
चत्वार्येवात्यन्तिकतमोरूपताभिधायकानीति, लोके अयमेवान्धकारो नान्योऽस्तीदृश इति 25 लोकान्धकारः, देवानामप्यन्धकारोऽसौ, तच्छरीरप्रभाया अपि तत्राप्रभवनादिति
१. इत्यादिक्रमेण जे१ ॥ २. देवफलिहे ति वा देवपरिखोभे ति वा भां० ॥ ३. देवरन्ने भां० विना ॥
15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org