SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ [सू० २९२] चतुर्थमध्ययनं चतुःस्थानकम् । द्वितीय उद्देशकः । देवान्धकार:, अत एव ते बलवतो भयेन तत्र नश्यन्तीति श्रुतिरिति, तथाऽन्यानि चत्वारि कार्याश्रयाणि - वातस्य परिहननात् परिघः अर्गला, परिघ इव परिघः, वातस्य परिघो वातपरिघः, तथा वातं परिघवत् क्षोभयति हतमार्गं करोतीति वातपरिघक्षोभः, वात एव वा परिघस्तं क्षोभयति यः स तथा, पाठान्तरेण वातपरिक्षोभ इति, क्वचिद्देवपरिघो देवपरिक्षोभ इति चाद्यपदद्वयस्थाने पठ्यते, देवानामरण्यमिव बलवद्भयेन 5 नॅशनस्थानत्वाद् यः स देवारण्यमिति, देवानां व्यूहः सागरादिसाङ्ग्रामिकव्यूह इव यो दुरधिगमत्वात् स देवव्यूह इति । तमस्कायस्वरूपप्रतिपादनायैव तमुक्काये णमित्यादि सूत्रं गतार्थम्, किन्तु सौधर्मादीनावृणोत्यसौ कुक्कुटपञ्जरसंस्थानसंस्थितस्य तस्य प्रतिपादनाद्, उक्तं च- तमुक्काए णं भंते! किंसंठिए पन्नत्ते ?, गोयमा ! अहे मल्लगमूलसंठिए उप्पिं कुक्कुटपंजरसंठिए पन्नत्ते [ भगवती० ६ | ५ | ३ ] त्ति । [सू० २९२] चत्तारि पुरिसजाया पन्नत्ता, तंजहा - संपागडपडिसेवी णाममेगे, पच्छन्नपडिसेवी णाममेगे, पडुप्पन्ननंदी नाममेगे, णिस्सरणणंदी णाममेगे १ । चत्तारि सेणाओ पन्नत्ताओ, तंजहा- जतित्ता णाममेगे णो पराजिणित्ता, पराजिणित्ता णाममेगे णो जतित्ता, एगा जतित्ता वि पराजिणित्ता वि, एगा नो जतित्ता नो पराजिणित्ता २ । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा - 15 जतित्ता नाममेगे नो पराजिणित्ता ह्व [= ४], ३ । चत्तारि सेणाओ पन्नत्ताओ, तंजहा - जतित्ता णाममेगा जयति, जतित्ता णाममेगा पराजिणति, पराजिणित्ता णाममेगा जयति, पराजिणित्ता नाममेगा पराजिणति ४ । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा- जतित्ता नाममेगे जयति ह्व [ = ४], ५ । [टी०] अनन्तरं तमस्कायो वचनपर्यायैरुक्तः, अधुना अर्थपर्यायैः पुरुषं निरूपयता पञ्चसूत्री गदिता सुगमा च, नवरं कश्चित् साधुर्गच्छवासी सम्प्रकटमेव अगीतार्थप्रत्यक्षमेव प्रतिसेवते मूलगुणानुत्तरगुणान् वा दर्पतः कल्पेन वेति सम्प्रकटप्रतिसेवीत्येकः, एवमन्यः प्रच्छन्नं प्रतिसेवत इति प्रच्छन्नप्रतिसेवी, अन्यस्तु प्रत्युत्पन्नेन लब्धेन वस्त्र - - शिष्यादिना प्रत्युत्पन्नो वा जातः सन् शिष्याचार्यादिरूपेण नन्दति यः स प्रत्युत्पन्ननन्दी, अथवा 25 नन्दनं नन्दिः आनन्दः, प्रत्युत्पन्नेन नन्दिर्यस्य स प्रत्युत्पन्ननन्दि:, तथा प्राघूर्णक १. नाशन खं० ॥ Jain Education International For Private & Personal Use Only ३६९ 10 20 www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy