________________
३६७
[सू० २९०] चतुर्थमध्ययनं चतुःस्थानकम् । द्वितीय उद्देशकः ।। बहिस्तत्त्वान्तस्तत्त्वापेक्षया व्याख्येय: ३। क्षेमो नामैको मार्ग आदौ निरुपद्रवतया पुन: क्षेमोऽन्ते तथैव, प्रसिद्धि-तत्त्वाभ्यां वा ४। एवं पुरुषोऽपि क्रोधाद्युपद्रवरहिततया क्षेम इति ५। क्षेमो भावतोऽनुपद्रवत्वेन क्षेमरूप आकारेण मार्ग: ६। पुरुषस्तु प्रथमो भावद्रव्यलिङ्गयुक्त: साधुः, द्वितीय: कारणिको द्रव्यलिङ्गवर्जित: साधुरेव, तृतीयो निह्नवः, चतुर्थोऽन्यतीर्थिको गृहस्थो वेति ७, शम्बूकाः शङ्खा:, वामो वामपार्श्वव्यवस्थितत्वात् 5 प्रतिकूलगुणत्वाद्वा, वामावर्त्तः प्रतीतः, एवं दक्षिणावर्तोऽपि, दक्षिणो दक्षिणपार्श्वनियुक्तत्वादनुकूलगुणत्वाद्वेति ८, पुरुषस्तु वाम: प्रतिकूलस्वभावतया वाम एवावर्त्तते प्रवर्त्तत इति वामावर्तो विपरीतप्रवृत्तेरेकः, अन्यो वाम एव स्वरूपेण, कारणवशाद् दक्षिणावर्त्तः अनुकूलप्रवृत्तिः, अन्यस्तु दक्षिणोऽनुकूलस्वभावतया, कारणवशात् वामावर्त्तः अननुकूलवृत्तिरिति, एवं चतुर्थोऽपीति ९, धूमशिखा वामा 10 वामपार्श्ववर्तितया अननुकूलस्वभावतया वा वामत एवावर्त्तते या तथा वलनात् सा वामावर्त्ता १०, स्त्री पुरुषवद् व्याख्येया ११, कम्बुदृष्टान्ते सत्यपि धूमशिखादिदृष्टान्तानां स्त्रीदाान्तिके शब्दसाधर्म्यणोपपन्नतरत्वाद् भेदेनोपादानमिति । एवमग्निशिखापि १२-१३। वातमण्डलिका मण्डलेनोर्ध्वप्रवृत्तो वायुरिति, इह च स्त्रियो मालिन्योपतापचापल्यस्वभावा भवन्तीत्यभिप्रायेण तासु धूमशिखादिदृष्टान्तत्रयोपन्यास इति, 15 उक्तं च
चवला मइलणशीला सिणेहपरिपूरिया वि तावेइ । दीवयसिह व्व महिला लद्धप्पसरा भयं देइ ॥ [ ] इति, १४-१५।
वनखण्डस्तु शिखावत्, नवरं वामावर्तो वामवलनेन जातत्वाद् वायुना वा तथा धूयमानत्वादिति १६, पुरुषस्तु पूर्ववदिति १७ ।
20 [सू० २९०] चउहि ठाणेहिं णिग्गंथे णिग्गंथिं आलवमाणे वा संलवमाणे वा णातिक्कमति, तंजहा-पंथं पुच्छमाणे वा १, पंथं देसमाणे वा २, असणं वा पाणं वा खाइमं वा साइमं वा दलयमाणे वा ३, दवावेमाणे वा ४।
[टी०] अनुकूलस्वभावोऽनुकूलप्रवृत्तिश्चानन्तरं पुरुष उक्तः, एवंभूतश्च निर्ग्रन्थ: सामान्येनानुचितप्रवृत्तावपि न स्वाचारमतिक्रामतीति दर्शयन्नाह- चउहीत्यादि स्फुटम्, 25 किन्त्वालपन् ईषत् प्रथमतया वा जल्पन संलपन् मिथो भाषणेन नातिक्रामति न १. लवृत्तिः पा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org