SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ ३६४ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे धन-गच्छादि करोतीत्यात्मतन्त्रकरः, एवमितरोऽपि, भङ्गयोजना स्वयमूह्येति । तथा आत्मानं तमयति खेदयतीत्यात्मतम: आचार्यादिः, परं शिष्यादिकं तमयतीति परतमः, सर्वत्र प्राकृतत्वाद्नुस्वारः, अथवा आत्मनि तम: अज्ञानं क्रोधो वा यस्य स आत्मतमा:, एवमितरोऽपि, तथा आत्मानं दमयति शमवन्तं करोति शिक्षयति वेत्यात्मदम: 5 आचार्योऽश्वदमकादिर्वा, एवमितरोऽपि, नवरं पर: शिष्योऽश्वादिर्वा । [सू० २८८] चउम्विधा गरहा पन्नत्ता, तंजहा-उवसंपजामित्तगा गरहा, वितिगिच्छामित्तेगा गरहा, जं किंचि मिच्छामीत्तेगा गरहा, एवं पि पन्नत्तेगा गरहा । [टी०] दमश्च गर्दागर्हात: स्यादिति गर्हासूत्रम्, तत्र गुरुसाक्षिका आत्मनो निन्दा 10 गर्दा, तत्र उपसंपद्ये आश्रयामि गुरुं स्वदोषनिवेदनार्थम् अभ्युपगच्छामि वोचितं प्रायश्चित्तम् इतीति एवंप्रकार: परिणाम एका गति, गर्हात्वं चास्योक्तपरिणामस्य गर्हाया: कारणत्वेन कारणे कार्योपचाराद् गर्दासमानफलत्वाच्च द्रष्टव्यमिति । अभिधीयते हि भगवत्याम् निग्गंथेणं गाहावइकुलं पिंडवायपडियाए पिण्डलाभप्रतिज्ञयेत्यर्थः, पविटेणं अन्नयरे 15 अकिच्चट्ठाणे पडिसेविए, तस्स णं एवं भवइ इहेव ताव अहं एयस्स ठाणस्स आलोएमि पडिक्कमामि निंदामि जाव पडिवज्जामि, तओ पच्छा थेराणं अंतियं आलोइस्सामि०, से य संपट्ठिए असंपत्ते अप्पणा य पुव्वमेव कालं करेजा से णं भंते! किं आराहए विराहए ? गोयमा ! आराहए नो विराहए [भगवती० ८।६७] त्ति । तथा वितिगिच्छामि त्ति वीति विशेषेण विविधप्रकारैर्वा चिकित्सामि प्रतिकरोमि 20 निराकरोमि गर्हणीयान् दोषान् इतीति एवंविकल्पात्मिका एकाऽन्या गर्दा, तत एवेति, तथा जं किंचि मिच्छामीति यत् किञ्चनानुचितं तन्मिथ्या विपरीतं दुष्ठ मे मम इतीत्येवं वासनागर्भवचनरूपा एकाऽन्या गर्हा, एवंस्वरूपत्वादेव गर्हाया:, तथा एवमपीति अनेनापि स्वदोषगर्हणप्रकारेणापि प्रज्ञप्ता अभिहिता जिनैर्दोषशुद्धिरिति प्रतिपत्तिरेका गर्हा, एवंविधप्रतिपत्तेर्गत्कारणत्वादिति, एवं पि पन्नत्तेगा गरिहेति पाठे 25 व्याख्यानमिदम्, एवं पि पन्नत्ते एगा इति पाठे त्विदम-यत किञ्चनावद्यं तन्मिथ्येत्येवं १. 'मि एगा भां० ॥ २. मी एगा भां० ॥ ३. मीतेगा भां० ॥ ४. 'नत्ते एगा भां० ॥ ५. त एवेति जे१ ॥ ६. 'मीति त्ति यत् पा० जे२ ।। ७. इत्येवं पा० जे२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy