________________
३६३
5
10
[सू० २८७] चतुर्थमध्ययनं चतुःस्थानकम् । द्वितीय उद्देशकः । चाकाशादिप्रतिष्ठितत्वं यथासम्भवमवसे यम्, अविवक्षा वेह विमानादिगतदेवादिवसानामिति, स्थावरास्त्विह बादरवनस्पत्यादयो ग्राह्याः, सूक्ष्माणां सकललोकप्रतिष्ठितत्वात्, शेषं सुगममिति ।
[सू० २८७] चत्तारि पुरिसजाता पन्नत्ता, तंजहा-तहे नाममेगे, नोतहे नाममेगे सोवत्थी नाममेगे, पधाणे नाममेगे ४, १।।
चत्तारि पुरिसजाया पन्नत्ता, तंजहा-आयंतकरे नाममेगे णो परंतकरे १, परंतकरे णाममेगे णो आतंतकरे २, एगे आतंतकरे वि परंतकरे वि ३, एगे णो आतंतकरे णो परंतकरे ४, २ । ___ चत्तारि पुरिसजाता पन्नत्ता, तंजहा-आतंतमे नाममेगे नो परंतमे, परंतमे नामं एगे ह्व [= ४], ३ ।
चत्तारि पुरिसजाया पन्नत्ता, तंजहा-आयंदमे नाममेगे णो परंदमे ह्व [= ४], ४ ।
[टी०] अनन्तरं त्रसा: प्राणा उक्ताः, अधुना त्रसप्राणविशेषस्य चत्तारीत्यादिभिश्चतुर्भिश्चतुर्भङ्गीसूत्रैः स्वरूपं दर्शयति, कण्ठ्यानि चैतानि, केवलं तह त्ति सेवक: सन् यथैवादिश्यते तथैव य: प्रवर्त्तते स तथः, अन्यस्तु नो तथैवान्यथापीत्यर्थ इति 15 नोतथः, तथा स्वस्तीत्याह चरति वा सौवस्तिकः प्राकृतत्वात् ककारलोपे दीर्घत्वे च सोवत्थी माङ्गलिकाभिधायी मागधादिरन्य:, एतेषामेवाराध्यतया प्रधान: प्रभुरन्य इति । आयंतकरे त्ति आत्मनोऽन्तम् अवसानं भवस्य करोतीत्यात्मान्तकरः, नो परस्य भवान्तकरो धर्मदेशनाऽनासेवकः प्रत्येकबुद्धादि: १, तथा परस्य भवान्तं करोति मार्गप्रवर्त्तनेन परान्तकरो नात्मान्तकरोऽचरमशरीर आचार्यादिः २, तृतीयस्तु 20 तीर्थकरोऽन्यो वा ३, चतुर्थो दुःषमाचार्यादि:४, अथवाऽऽत्मनोऽन्तं मरणं करोतीति
आत्मान्तकरः, एवं परान्तकरोऽपि, इह प्रथम आत्मवधकः, द्वितीयः परवधकः, तृतीय उभयहन्ता, चतुर्थस्त्ववधक इति, अथवाऽऽत्मतन्त्रः सन् कार्याणि करोतीत्यात्मतन्त्रकरः, एवं परतन्त्रकरोऽपि, इह तु प्रथमो जिनः, द्वितीयो भिक्षुः, तृतीय आचार्यादिः, चतुर्थ: कार्यविशेषापेक्षया शठयतिः, अथवा आत्मतन्त्रम् आत्मायत्तं 25 १. तहिए नाममेगे अतहिए नाममेगे भां० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org